Table of Contents

<<7-3-53 —- 7-3-55>>

7-3-54 हो हन्तेर् ञ्णिन्नेषु

प्रथमावृत्तिः

TBD.

काशिका

हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परतः नकारे च। घातयति। घातकः। साभुघाती। घातंघातम्। घातो वर्तते। नकारे घ्नन्ति। घ्नन्तु। अघ्नन्। हः इति किम्? अलो ऽन्त्यस्य मा भूत्। हन्तेः इति किम्? प्रहारः। प्रहारकः। ञ्णित्प्रत्ययो हन्तेर् विशेषणम्, नकारो हकारस्य, नकारे ऽनन्तरस्य हन्तिहकारस्य इति। तच्चानन्तर्य श्रुतिकृतं सन्निपातकृतम् आश्रीयते। स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात्। यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि येन नाव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातिति ञ्णिति धात्ववयवेन व्यवहिते ऽपि सति भवति। इह तु न भवति, हननम् इच्छति हननीयति, हननीयतेर् ण्वुल् हननीयकः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

289 ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्. वृत्रघ्नः इत्यादि. एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्..

बालमनोरमा

हो हन्तेः। `हः' इति स्थानषष्ठी, `हन्ते'रित्यवयवषष्ठी। ञ् च ण् च ञ्णौ। तौ इतौ ययोस्तौ ञ्णितौ। इच्छब्दः प्रत्येकं सम्बध्यते। ञ्णितौ च नश्च ञ्णिन्नाः, तेष्विति विग्रहः। अङ्गाधिकारात्प्रत्ययत्वं ञ्णितोर्लभ्यते। `चजोः कु घिण्यतो'रित्यतः कुग्रहणमनुवर्तते। तदाह–ञितीत्यादिना। `हन्ते'रिति श्तिपा निर्देशः। हन्धातोरित्यर्थः। प्रकृते हकारस्य नकारपरत्वात्कुत्वम्। तत्र घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थो घकारः। वृत्रघ्नः वृत्रघ्ना इत्यादि सिद्धम्।

तत्त्वबोधिनी

318 हन्तेर्हस्येति। `ञिति' `णिती'त्येतद्धन्तेर्विशेषणम्, `नकारे'इति तु `हस्ये'ति यथासंभवं बोध्यम्। यद्वा ञिण्णिन्नाः सर्वेऽपि ह्यस्यैब विशेषणं। ञिति णितीत्यंशे येन नाव्यवधानन्यायेन द्वाभ्यां व्यवधानं स्वीक्रियते। ते `घातः'`घातक'इत्यत्र कुत्वं भवति। इह तु न भवति, हननमात्मन इच्छति हननीयति। हननीयतेर्ण्वुल्–`हननीयक'इति। एतच्च भाष्यकैयटादौ स्पष्टम्।

Satishji's सूत्र-सूचिः

198) हो हन्तेर्ञ्णिन्नेषु 7-3-54

वृत्ति: ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात्। The हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत्, or when followed (immediately) by a नकारः।

Example under the next rule.