Table of Contents

<<1-1-64 —- 1-1-66>>

1-1-65 अलो ऽन्त्यात् पूर्व उपधा

प्रथमावृत्तिः

TBD.

काशिका

धात्वादौ वर्णसमुदाये ऽन्त्यादलः पूर्वो यो वर्णः सो ऽलेव उपधासंज्ञओ भवति। पच्, पठकरः। भिद्, छिदिकारः। बुध्, युधुकारः। वृत्, वृधृकारः। अलः इति किम्? शिष्टः, शिष्टवान्। समुदायात् पूर्वस्य मा भूत्। उपधाप्रदेशाःअत उपधायाः 7-2-115 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

176 अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः..

बालमनोरमा

247 सखन्-स् इति स्थिते उपधाकार्यं वक्ष्यन्नुपधासंज्ञामाह–अलोन्त्यात्। `अल' इति पञ्चमी, `अन्त्या'दिति सामानाधिकरण्यात्। अल्प्रत्याहारो वर्णपर्यायः। पूर्वोऽप्यलेव गृह्रते, साजात्यादित्याह–अन्त्यादल इत्यादिना। अलः किम् ?। `शिष्ट' इत्यत्र शास्धातौ आसिति संघातात्पूर्वशकारस्योपधात्वं न भवति। अन्यथा `शास इदङ्हलो'रिति शकारस्येकारप्रसङ्गः। वर्णग्रहणं किम् ?। शास्धातौ `शा' इति समुदायस्य उपधात्वं न भवति। अन्यथा `शा' इति समुदायस्य इकारः स्यात्। न चालोन्त्यपरिभाषया आकारस्यैव इकारो भवतीति वाच्यं, `नानर्थकेऽलोन्त्यविधि'रिति तन्निषेधात्।

तत्त्वबोधिनी

208 अलोऽन्त्यात्पूर्व। `अल'इति पञ्चमी `अन्त्या' दित्यनेन विशेष्यात इत्याह- अन्त्यादल इति। अलः किम्?। `शिष्टाः' `शिष्टवा' नित्यादावन्त्यात्सङ्घातात्पूर्वस्य शकारस्य मा भूत्। सत्यां हि संज्ञायां `शास इदङ्हलोः' इति शस्येत्त्वं स्यात्। नन्वेवमप्यन्त्यादलः पूर्वस्य सङ्घातेस्योपधासंज्ञायां `शिष्ट'इत्यादौ शकारविशिष्टस्याकारस्य इत्त्वं स्यादित्यतिप्रसङ्गदोषस्तदवस्थ एवेति चेदुच्यते–यथा हि लोके `अमीषां ब्राआहृआणानामन्त्यात्पूर्व आनीयिता'मित्यक्ते यथाजातीयकोऽन्त्यस्तथाजातीयकोऽन्त्यात्पूर्व आनीयते, तथाऽत्राप्यन्त्योऽलात्मक इति तत्पूर्वोऽप्यलेव गृह्रते। तदेतदाह–पूर्वो वर्ण इति। अत्र`अचोऽन्त्यादि टी' त्यत्रेव `अल' इति निर्धारणे षष्ठीत्यपि सुवचमिति केचिदाहुः, `अलां मध्ये योऽन्त्यस्तस्मात्पूर्वो वर्ण उपधासंज्ञः स्या'दिति व्याख्याया अपि संभवदुक्तिकत्वात्।

Satishji's सूत्र-सूचिः

89) अलोऽन्त्यात् पूर्व उपधा 1-1-65

वृत्ति: अन्त्यादल: पूर्वो वर्ण उपधा-संज्ञ: । The penultimate letter of a term is called उपधा.

गीतासु उदाहरणम् – श्लोकः bg11-44

Continuing from above example, we are at the stage सखन् + सुँ Now, in the term सखन् (= सख् अ न्) the penultimate letter अ gets the designation उपधा