Table of Contents

<<6-4-99 —- 6-4-101>>

6-4-100 घसिभसोर् हलि च

प्रथमावृत्तिः

TBD.

काशिका

घसि भस इत्येतयोः छन्दसि उपधाया लोपो भवति लहादौ अजादौ च क्गिति प्रत्यये परतः। सग्धिश्च मे सपीतिश्च मे। बब्धाम् ते हरी धानाः। सग्धिः इति अदेः क्तिनि बहुलं छन्दसि इति घस्लादेशे उपधायाः लोपे च कृते झलो झलि 8-2-26 इति सकारलोपः। धत्वं तकारस्य, जश्त्वं घकारस्य। ततः समाना ग्धिः सग्धिः इति समासे कृते समानस्य सभावः। बब्धाम् इति भसेर् लोटि तामि श्लौ द्विर्वचने कृते उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि। द्विर्वचनात् परत्वान् नित्यत्वाच् च उपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते। अजादौ बप्सति। क्ङिति इत्येव, अंशून् बभस्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.