Table of Contents

<<8-4-13 —- 8-4-15>>

8-4-14 उपसर्गादसमासे ऽपि णौपदेशस्य

प्रथमावृत्तिः

TBD.

काशिका

णः उपदेशो यस्य असौ णोपदेशः। णोपदेशस्य धातोर् यो नकारः तस्य उपसर्गस्थान् निमित्तादुत्तरस्य णकारादेशो भवति असमासे ऽपि समासे ऽपि। प्रणमति। परिणमति। प्रणायकः। परिणायकः। उपसर्गातिति किम्? प्रगता नायकाः अस्माद् देशात् प्रनायको देशः। अस्मासे ऽपि किम्? पूर्वपदाधिकारात् समास एव स्यातिति तदधिकारणिवृत्तिद्योतनार्थम्। णोपदेशस्य इति किम्? प्रनर्दति। प्रनर्दकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

461 उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः. प्रणदति. प्रणिनदति. नदति. ननाद..

बालमनोरमा

131 ननु णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते, नकार एवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह– उपसर्गात्। `रषाभ्यां नो णः'इत्यधिकृतम्। तदाह–उपसर्गस्थादिति। `समासेऽङ्गुले सङ्गः'इत्यतः समास इत्यनुवृत्तेरसमासे न स्यादित्यसमासग्रहणम्। तथा सति `प्रणाम'इत्यादौ समासे न स्यादित्यपिग्रहणं। तदाह–समासेऽसमासेऽपीति। णस्योपदेशो यस्मिन्निति विग्रहः। प्रणदतीति। भिन्नपदत्वादप्राप्तिः। प्रणिनदतीति। नेर्ददेति णत्वम्। न चात्र `उपसर्गादसमास'इति धातुनकारस्य णत्वं शङ्क्यम्, अट्कुप्वाङ्?भिन्नेन व्यवधानात्। अर्देति। `उपधायां चे'त्यत्र इक इत्यनुवर्तनादर्दतीत्यादौ न दीर्घः।

तत्त्वबोधिनी

105 उपसर्गाद। `समासेऽङ्गुलेः सङ्गः'इत्यतोऽनुवर्तनात्समास एव स्यादित्यसमासग्रहणं। कृते तु तस्मिन्नसमास एवस्यादित्यपेग्र्रहणं कृतम्। प्रणिनदतीति। `नेर्गदे'ति णत्वम्। धातु नकारस्य तु `उपसर्गादसमासे' इति णत्वं न भवति, अडादिभिन्नेन व्यवधानात्।

Satishji's सूत्र-सूचिः

324) उपसर्गादसमासेऽपि णोपदेशस्‍य 8-4-14

वृत्तिः उपसर्गस्‍थान्निमित्तात् परस्‍य णोपदेशस्य धातोर्नस्‍य णः। The नकारः of the धातुः that is णोपदेशः (begins with a णकार: in the धातुपाठ:), gets णकारः as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्।

उदाहरणम्:
The धातुः “नम्” is listed in the धातु-पाठः as “णमँ प्रह्वत्वे शब्दे च १. ११३६”। Thus it is
णोपदेशः।
√णमँ = नम् 6-1-65, 1-3-2
नम् + लँट् 3-2-123 = नम् + ल् 1-3-2, 1-3-3
= नम् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= नम् + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= नमति 1-3-3, 1-3-8
प्र + नमति = प्रणमति 8-4-14