Table of Contents

<<8-4-14 —- 8-4-16>>

8-4-15 हिनुमीना

प्रथमावृत्तिः

TBD.

काशिका

हिनु मीना इत्येतयोः उपसर्गस्थान् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रःइणोति। प्रहिणुतः। प्रमीणाति। प्रमीणीतः। हिनुमीनाग्रहणे विकृतस्य अपि भवति, अजादेशस्य स्थानिवत्त्वात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

688 उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्. प्रमीणाति, प्रमीणीते. मीनातीत्यात्वम्. ममौ. मिम्यतुः. ममिथ, ममाथ. मिम्ये. माता. मास्यति. मीयात्, मासीष्ट. अमासीत्. अमासिष्टाम्. अमास्त.. षिञ् बन्धने.. 5.. सिनाति, सिनीते. सिषाय, सिष्ये. सेता.. स्कुञ् आप्लवने.. 6..

बालमनोरमा

360 हिनुमीना। हिनु मीना अनयोद्र्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक्। `रषाभ्यां नो णः' इत्यनुवर्तते। `उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च। तदाह- - उपसर्गस्थादिति।

तत्त्वबोधिनी

314 हिनु मीना। प्रमीणति।

Satishji's सूत्र-सूचिः

वृत्ति: उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। The नकारः of “हिनु” and “मीना” gets णकारः as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्।