Table of Contents

<<8-4-12 —- 8-4-14>>

8-4-13 कुमति च

प्रथमावृत्तिः

TBD.

काशिका

कवर्गवति च उत्तरपदे प्रातिपदिकान्तनुंविभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ। वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि वस्त्रयुगाणि। खरयुगाणि। विभक्तौ वस्त्रयुगेण। खरयुगेण।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1041 कुमति च। प्राग्वदिति। प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं मत्वं स्यादित्यर्थः। अनेकाजुत्तरपदार्थमिदम्। हरिकामिणाविति। `बहुलमाभीक्ष्ण्ये' इति णिनिः। प्रातिपदिकान्तत्वाण्णत्वम्। हरिकामाणीति। अजन्तलक्षणनुमो नित्यं णत्वम्। हरिकामेणेति। विभक्तिस्थस्योदाहरणम्।

तत्त्वबोधिनी

871 कुमति च। अनेकाजुत्तरपदार्थ आरम्भः। `कौ' इत्येव तु न सूत्रितम्। `यस्मिन्विधि'रिति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यान्न तु वस्त्रयुगेणेत्यादौ, तथा च लमतुबन्तनिर्देश आवश्यक इत्याह–कवर्गवतीति।

Satishji's सूत्र-सूचिः

TBD.