Table of Contents

<<7-4-49 —- 7-4-51>>

7-4-50 तासस्त्योर् लोपः

प्रथमावृत्तिः

तासस्त्यो: ६/२ लोपः १/१।
हिन्दी – [तासस्त्यो:] तास् और अस् धातु के सकार का सकारादि प्रत्यय परे रहते [लोपः] लोप होता है।

काशिका

तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति। तासेः कर्तासि। कर्तासे। अस्तेः त्वम् असि। व्यतिसे। अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रम् एतत् पदम्, तेन सात् पदाद्योः 8-3-111 इति षत्वं न भवति।

Ashtadhyayi (C.S.Vasu)

The final स् of तास् (the character of the second Future) and that of अस् 'to be', is elided before affix beginning with स्.

लघु

408 तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे.

बालमनोरमा

40 तदाह–तासस्त्योः। `सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात् `यस्मिन्विधि'रिति तदादिविधिः, तदिदमाह–सादाविति। एवं रादावित्त्राप्यूह्रम्।

तत्त्वबोधिनी

31 `सः स्यार्धदातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात् `यस्मिन्विधि'रिति तदादिविधिः, तदिदमाह– सादाविति। एवं रादावित्यत्राप्यूह्रम्।

Satishji's सूत्र-सूचिः

383) तासस्त्योर्लोपः 7-4-50

वृत्तिः तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे। When followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

उदाहरणम् – असि (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

अस् + लँट् 3-2-123 = अस् + ल् 1-3-2, 1-3-3
= अस् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + सि 1-3-3 = अस् + शप् + सि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + सि 2-4-72 = असि 7-4-50