Table of Contents

<<7-4-50 —- 7-4-52>>

7-4-51 रि च

प्रथमावृत्तिः

TBD.

काशिका

रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति। कर्तारौ। कर्तारः। अध्येतारौ। अध्येतारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

409 रादौ प्रत्यये तथा. भवितारौ. भवितारः. भवितासि. भवितास्थः. भवितास्थ. भवितास्मि. भवितास्वः. भवितास्मः.

बालमनोरमा

41 प्राग्वदिति। तासेर्लोप इत्यर्थः। अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात्।

तत्त्वबोधिनी

32 प्राग्वदिति। तासेर्लोप इत्यर्थः। अस्तिस्तु नेह संबध्यते,ततो रादिप्रत्ययस्याऽसंभवात्॥

Satishji's सूत्र-सूचिः

वृत्ति: तासेरस्तेश्च सस्य लोपस्स्यात् रादौ प्रत्यये परे । When followed by an affix beginning with a रेफ:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

उदाहरणम् – भवितारौ derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

भू + लुँट् 3-3-15
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + तासिँ + तस् 3-1-33
= भू + तास् + तस् 1-3-2, 1-3-9
= भू + इट् तास् + तस् 7-2-35, 1-1-46
= भू + इतास् + तस् 1-3-3, 1-3-9
= भो + इतास् + तस् 7-3-84
= भवितास् + तस् 6-1-78
= भवितास् + रौ 2-4-85
= भवितारौ 7-4-51