Table of Contents

<<8-3-110 —- 8-3-112>>

8-3-111 सेधतेर् गतौ

प्रथमावृत्तिः

TBD.

काशिका

गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति। अभिसेधयति गाः। परिसेधयति गाः। गतौ इति किम्? शिष्यमकार्यात् प्रतिषेधयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1248 सस्य षत्वं न स्यात्. कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति. दधि सिञ्चति..

बालमनोरमा

सात्पदाद्योः। शेषपूरणेन सूत्रं व्याचष्टे–सस्य षत्वं न स्यादिति। सातेरवयवस्य, पदादेश्च सस्य षत्वं न स्यादित्यर्थः। `न रपरसृपी'त्यतो नेति, `अपदान्तस्ये'त्यतो `मूर्धन्य' इति चानुवर्तत इति भावः। पदादेरुदाहरति–दधि सिञ्चतीति। षिचिधातोः `धात्वादेः षः सः' इति षस्य सः। तस्य `आदेशप्रत्यययो'रिति षत्वे प्राप्ते।ञनेन निषेधः। कृत्स्नमिति। सर्वावयवोपेतमित्यर्थः। `अग्निसा'दित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्तेऽनेन निषेधः। अग्नीभवतीति। च्विप्रत्यये `च्वौ चे ति दीर्घः। महाविभाषयेति। `समर्थाना'मित्यतो वाग्रहणानुवृत्तेरित्यर्थः। माहाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.