Table of Contents

<<7-4-48 —- 7-4-50>>

7-4-49 सः स्यार्धधातुके

प्रथमावृत्तिः

TBD.

काशिका

सकारान्तस्य अङ्गस्य सकारादौ आर्धधातुके परतः तकारादेशो भवति। वत्स्यति। अवत्स्यत्। विवत्सति। जिघत्सति। सः इति किम्? वक्ष्यति। सि इति किम्? घासः। वासः। आर्धधातुके इति किम्? आस्से। वस्से।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

710 सस्य तः स्यात्सादावार्धधातुके. अत्तुमिच्छति जिघत्सति. एकाच इति नेट्..

बालमनोरमा

181 सः सि। `सः' इति छेदः। `स' इति षष्ठ\उfffद्न्तम्। सीति सप्तम्यन्तमाद्र्धधातुकविशेषणं। तदादिविधिः। `अच उपसर्गात्तः' इत्यतस्त इत्यनुवर्तते। अकार उच्चारणार्थः। तदाह–सस्य तः स्यादिति। आदेशे अकारस्य उच्चारणार्थत्वत्तकारः स्यादित्यर्थः।

तत्त्वबोधिनी

154 सः–सीति च्छेदः। सादौ किम् ?। घस्मरः। आद्र्धधातुके इति किम् ?। वस्से। आशिषीति। आशीर्लिङीत्यर्थः। एतच्च कर्तरि प्रोगमभिप्रेत्योक्तम्। कर्मणि तु यग्विषये प्रयोगो नेति बोध्यम्।

Satishji's सूत्र-सूचिः

वृत्ति: सस्य तः स्यात्सादावार्धधातुके । A सकार: gets replaced by a तकार: when followed by a आर्धधातुक-प्रत्यय: which begins with a सकार:।

उदाहरणम् – वत्स्यति derived from √वस् (वसँ निवासे १. ११६०). विवक्षा is लृँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वस् + लृँट् 3-3-13
= वस् + ल् 1-3-2, 1-3-3, 1-3-9
= वस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वस् + ति 1-3-3, 1-3-9
= वस् + स्य + ति 3-1-33. Note: 7-2-10 stops 7-2-35
= वत्स्यति 7-4-49