Table of Contents

<<7-3-84 —- 7-3-86>>

7-3-85 जाग्रो ऽविचिण्णल्ङित्सु

प्रथमावृत्तिः

TBD.

काशिका

जागु इत्येतस्य अङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः। जागरयति। जागरकः। साधुजागरी। जागरंजागरम्। जागरो वर्तते। जागरितः। जागरितवान्। वृ\उ0304द्धिविषये प्रतिषेधविषये च यथा स्यातिति जागर्तेरयं गुणः आरभ्यते। तस्मिन् कृते या अत उपधायाः 7-2-116 वृद्धिः प्राप्नोति सा न भवति। यदि हि स्यातनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनम् अनर्थकम्। अविचिण्णल्ङित्सु इति किम्? जृ\उ0304शृ\उ0304स्तृर्जागृभ्यः क्विन् जागृविः। चिण् अजागारि। णल् जजागार। ङित् जागृतः। जागृथः। वि इति केचिदिकारम् उच्चारणार्थं वर्णयन्ति, क्वसावपि वकारादौ गुणो न भवति। जजागृवान्। अजागरुः, अहं जजागर इत्यत्र प्रतिषेधः प्राप्नोति? न, अप्रतिषेधात्। अविचिण्णल्ङित्सु इति पर्युदासो ऽयम्, अथवा जाग्रः इति प्रप्तिरसावानन्तर्याद् विचिण्णल्ङित्सु प्रतिषिध्यते। या तु जुसि च 7-3-83, सार्वधातुकार्धधातुकयोः 7-3-84 इति च प्राप्तिः , सा न प्रतिषिध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

310 जाग्रोऽवि। `जाग्र' इति षष्ठी। `मिदेर्गुणः' इत्यतो गुण इत्यनुवर्तते। तदाह– जागर्तेर्गुणः स्यादिति। `अविचिण्णल्ङित्स्वि'ति च्छेदः। वि चिण् णल् हित् एषां द्वन्देव नञ्समासः। तदाह– विचिण्णल्ङिद्भ्योऽन्यस्मिन्निति। चिण्णल्पर्युदासाद्वृद्धिविषयेऽप्यस्य प्रवृत्तिः। ङित्पर्युदासाद्गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः। तदाह–वृद्धिविषये चेति। जजागतुरिति। अत्र कित्त्वेऽपि गुणः। जजागरुः। जजागरिथ जजागरथुः जजगार। जजागार– जजागर, जजागरिव जजागरिम। विचिण्णल्ङित्सु तु न गुणः। वि–जागृविः। चिण्–अजागारि। णल्–जजागार। ङित्–जागृतः। वृद्धिविषये यथा ण्वुलि– जागरकः। प्रतिषेधविषये यथा– जजागरतुः। कित्त्वेऽपि गुण इत्याद्यूह्रम्।जागरिता। जागरिष्यति। जागर्तु- - जागृतात् जागृताम् जाग्रतु। जागृहि–जागृतात् जागृतम् जागृत। जागराणि जागराव जागराम। लङ्याह– अजागरति। तिपि इकारलोपे हल्ङ्यादिना तकारलोपे रेफस्य विसर्ग इति भावः। अभ्यस्तत्वाल्लङो जेरदादेशे प्राप्ते आह– अब्यस्तत्वाज्जुसिति। `सिजब्यस्तविदिभ्यश्चे'त्यनेनेति भावः। जक्षित्यादित्वादभ्यस्तत्वम्। अजागृ उस् इति स्थिते `सार्वधातुकमपि'दिति ङित्त्वादविचिण्णल्ङित्स्विति पर्यादासादप्राप्ते गुणे आह–

तत्त्वबोधिनी

270 जाग्रोऽविचिण्णल्। ङिद्भ्योऽन्यस्मिन्निति। जागृविः। विशब्देन वादिप्रत्ययो गृह्रते। `इकारस्तूच्चारणार्थ' इति वदतां मते क्वसावपि न भवति। जजागृवान्। जजागृवांसौ। चिण्- अजागारि। णल्- जजागार। ङित्–जागृतः। जागृथः। वृद्धिविषये इति। ण्वुलि– जागरकः। घञि– जागरः। णिचि– जागरयति। नचैतेषु गुणे कृतेऽपि `अत उपधायाः' इति वृद्धिः स्यादिति वाच्यं, गुणविधेश्चिण्णल्प्रतिषेधस्य चाऽऽनर्थक्यापत्तेः।

Satishji's सूत्र-सूचिः

TBD.