Table of Contents

<<1-2-9 —- 1-2-11>>

1-2-10 हलन्ताच् च

प्रथमावृत्तिः

TBD.

काशिका

हलन्तादिको झल् कितिति वर्तते। सनिति निवृत्तम्। इगन्तदिक्समीपाद्धलः परौ झलादी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

746 इक्समीपाद्धलः परो झलादिः सन् कित्. निविविक्षते..

बालमनोरमा

440 हलन्ताच्च। `इको झ'लिति पूर्वसूत्रमनुवर्तते। `रुदविदमुषे'त्यतः सनिति,`असंयोगाल्लि'डित्यतः किदिति च। `ह'लिति लुप्तपञ्चमीकं पदम्। अन्तशब्दः समीपवाची। तदाह– इक्समीपादित्यादि। जुघुक्षतीति। सनः कित्त्वान्न गुणः। `सनि ग्रहगुहोश्चे'त्यूदित्त्वेऽपि नित्यं नेट्। हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः। बिभित्सतीति। भिदेः सनः कित्त्वान्न गुणः। यियक्षते इति। अत्र हलः इक्समीपत्वाऽभावान्न कित्त्वम्। सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः। विवर्धिषते इति। वृधेः सनि रूपम्। अत्र सन इटि झलादित्वं नेति भावः। ननु `तृंहू हिंसायाम्' तुदादिर्नोपधोऽयम्। कृतानुस्वारस्य निर्देशः। अस्मात्सनः `अनिदिता'मिति नलोपार्थं कित्त्वमिष्यते। तन्नोपपद्यते। न ह्रत्र इक्समीपादनुस्वारात्सन् परो भवति, हकारेण व्यवधानात्। हकारात्तु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत आह– हल्ग्रहमं जातिपरमिति। हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिपरमित्यर्थः। तृंह्विति। तृंहूधातोः प्रदर्शनामिदम्।तितृक्षतीति।ऊदित्त्वादिडभावपक्षे रूपम्। सनः कित्त्वान्नलोपः, लघूपधगुणाऽभावश्च। ढत्वकत्वषत्वानि। इट्पक्षे आह– तितृंहिषत#ईति। झलादित्वाऽभावेन कित्त्वाऽभावान्नलोपो नेति भावः।

तत्त्वबोधिनी

384 हलन्ताच्च। इगित्यनुर्तते। तदवयवत्वं हलो न संभवतीति समीपवाच्यत्राऽन्तशब्द इत्याशयेन व्याचष्टे— इक्समीपादिति। सौत्रत्वाद्विशेषणस्याऽन्तशब्दस्य परनिपातः। तितृक्षतीति। कित्त्वे सति `अनिदिता' मिति नलोपः।

Satishji's सूत्र-सूचिः

वृत्तिः इक्समीपाद्धलः परो झलादिः सन् कित् । The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter.
Note: The affix सन् by itself is झलादिः but when it takes a “इट्” augment that joins itself to the beginning of “सन्” then the affix becomes “इस” which is no longer झलादिः। So a झलादिः “सन्” means the affix “सन्” which is without the augment इट्।

उदाहरणम् – बुभुत्सते is a desiderative form derived from √बुध् (बुधँ अवगमने ४. ६८).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

बुध् + सन् 3-1-7
= बुध् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
Note: By 1-2-10 the affix सन् is a कित् here. Hence 1-1-5 stops 7-3-86
= बुध् स् बुध् स 6-1-9
= बु बुध् स 7-4-60
= बु भुध् स 8-2-37
= बुभुत्स 8-4-55
“बुभुत्स” gets धातु-सञ्ज्ञा by 3-1-32

बुभुत्स + लँट् 3-2-123 = बुभुत्सते 1-3-62, 1-3-12