TBD.
अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस् तदन्तस्य नपुंसकस्य वा नुमागमो भवति। ददति, ददन्ति कुलानि। दधति, दधन्ति कुलानि। जक्षति, जक्षन्ति कुलानि। जाग्रति, जाग्रन्ति कुलानि।
TBD.
366 अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने. ददन्ति, ददति.. तुदत्..
439 शौ `नाभ्यस्तच्छतुः' इति नित्यं नुम्निषेधे प्राप्ते–वा नपुंसकस्य। `नाभ्यस्ताच्छतुः' इति सूत्रं नञ्वर्जमनुवर्तते। नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी। `इदितो नुम्धातोः' इत्यतो नुमिति `उगिदचा'मित्यतः `सर्वनामस्थाने' इति च अनुवर्तते। तदाह–अभ्यस्तादित्यादिना। ददन्तीति। नुमि अनुस्वारपरसवर्णौ। तुददिति। `तद व्यथने' अस्माच्छतृप्रत्यये `तुदादिभ्यश्शः' इति शः शपोऽपवादः, `अतो गुणे' इति शतुरकारेण पररूपे तुदच्छब्दः, तस्मात्स्वमोर्लुक्, प्रत्ययलक्षणविरहादसर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भावः।
396 दददिति। पुंलिङ्गेऽ[प्य]यं व्युत्पादितः। शतेति। `ऋदुशने'त्यनङ्। शतृप्रत्यय इत्यर्थः।
265) वा नपुंसकस्य 7-1-79
वृत्ति: अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुँम् सर्वनामस्थाने । When followed by a सर्वनामस्थानम् affix, a neuter stem ending in the शतृँ-प्रत्यय: which follows an अभ्यस्तम्, takes the नुँम् augment optionally.
उदाहरणम् – ददत् (neuter) + जस् /शस् 4-1-2 = ददत् + शि 7-1-20, 1-1-42 (Note: “दद्” has the अभ्यस्त-सञ्ज्ञा by 6-1-5) = दद नुँम् त् + शि 7-1-79, 1-1-47 = ददन्ति 1-3-2, 1-3-3, 1-3-8 = ददंति 8-3-24 = ददन्ति 8-4-58
or
ददत् (neuter) + जस् /शस् 4-1-2 = ददत् + शि 7-1-20, 1-1-42 = ददति 1-3-8