Table of Contents

<<7-1-77 —- 7-1-79>>

7-1-78 न अभ्यस्ताच् छतुः

प्रथमावृत्तिः

TBD.

काशिका

अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति। ददत्, ददतौ, ददतः। दधत्, दधौ, दधतः। जक्षत्, जक्षतौ, जक्षतः। जाग्रत्, जाग्रतौ, जाग्रतः। शतुरनन्तर ईकारो न विहितः इति व्यवहितस्य अपि नुमः प्रतिषेधो विज्ञायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

347 अभ्यस्तात्परस्य शतुर्नुम् न. ददत्, ददद्. ददतौ. ददतः.. ,

बालमनोरमा

नाभ्यस्ताच्छतुः। `इदितो नुम् धातो'रित्यतो नुमित्यनुवर्तते। तदाह– अभ्यस्तादित्यादिना। दददिति। ददत्शब्दात्सुः। हल्ङ्यादिलोपः। `नाभ्यस्ता'दिति निषेधात् `उगिदचाम्' इति नुम् न। अत्वन्तत्वाऽभावाच्च न दीर्घ इति भावः। `जक्ष भक्षहसरनयोः', `जागृ निद्राक्षये', `दरिद्रा दुर्गतौ', `चकासृ दीप्तौ', `शासु अनुशिष्टौ' `दीधीङ् दीप्तिदेवनयोः', `वेवीङ् वेतिना तुल्ये' इति सप्त धातवोऽदादौ पठिता सुग्विकरणाः। तेभ्यो लटः शत्रादेशे शब्लुकिं सुबुत्पत्तौ `नाभ्यस्ताच्छतुः' इति निषेध इष्यते।

तत्त्वबोधिनी

380 नाभ्यस्ताच्छतुः। व्यवहितोऽपि नुमेवाऽत्र निषिध्यते, अन्येषामप्रसक्तेरित्यभिप्रेत्याह—नुम्न स्यादिति। दददिति। ददातीति ददत्। दाञो लटः शत्रादेशः। शपः श्लुः। `श्लौ'इति द्वित्वम्। अभ्यासस्य ह्यस्वः। `श्नाभ्यस्तयोरातः'इत्यलोपः। जक्षित्यदयः षट्। `ज'क्षिति पृथक् पदम्। `इति'शब्देन जक्षिरेव परामश्यते। इति आदिर्येषामित्यतद्गुणसंविज्ञानबहुव्रीहिस्तदेतदाह– षड्धातवोऽन्ये इति। इति तान्ताः। गोपायतीति गुप्। क्विपि विवक्षिते `आयादय आर्धधातुके वे'ति वैकल्पिकत्वादिहाऽऽयप्रत्ययाऽभावः। आयप्रत्ययपक्षे त्वतो लोपे यलोपे च `गोपा'इति रूपं बोध्यम्। इति पान्ताः।

Satishji's सूत्र-सूचिः

241) नाभ्यस्ताच्छतुः 7-1-78

वृत्ति: अभ्यस्तात् परस्य शतुर्नुँम् न स्यात्। The शतृँ affix that follows an अभ्यस्तम् does not get the नुँम् augment.

उदाहरणम् – ददत् + सुँ 4-1-2 = ददत् + स् 1-3-2 = ददत् 6-1-68. Now 7-1-78 stops 7-1-70 and we get ददद् 8-2-39 = ददत्, ददद् 8-4-56.