Table of Contents

<<7-1-19 —- 7-1-21>>

7-1-20 जश्शसोः शिः

प्रथमावृत्तिः

TBD.

काशिका

नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययम् आदेशो भवति। कुण्डानि तिष्थन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्ति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

238 क्लीबादनयोः शिः स्यात्..

बालमनोरमा

बहुवचनस्य वस्नसौ। उक्तविधयोरिति। षष्ठ\उfffदादिविशिष्टयोर्युष्मदस्मदोरित्यर्थः।

तत्त्वबोधिनी

272 जश्शसोः। जसा साहचर्यादिह सुबेव शस् गृह्रते। तेनेह न—कुण्डशो ददाति।

Satishji's सूत्र-सूचिः

149) जश्शसोः शिः 7-1-20

वृत्ति: क्लीबाद् अनयोः शिः स्यात्। The affixes “जस्” and “शस्” get “शि” as the replacement when they follow a neuter अङ्गम्।

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55. Example continued under sutras below.