Table of Contents

<<1-1-41 —- 1-1-43>>

1-1-42 शि सर्वनामस्थानम्

प्रथमावृत्तिः

TBD.

काशिका

शि इत्येतत् सर्वनामस्थानसंज्ञं भवति। किम् इदं शि इति? जश्शसोः शिः 7-1-20 इति शिः आदेशः। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। सर्वनामस्थानप्रदेशाः सर्वनामस्थाने च असम्बुद्धौ 6-4-8 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

239 शि इत्येतदुक्तसंज्ञं स्यात्..

बालमनोरमा

311 शिसर्वनामस्थानम्। उक्तसंज्ञामिति। सर्वनामस्थानसंज्ञकमित्यर्थः। अनपुंसकस्येति पर्युदासाच्छीत्यस्य सर्वनामस्थानत्वेऽप्राप्ते वचनम्।

तत्त्वबोधिनी

273 शि सर्वनामस्थानम्। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन।

Satishji's सूत्र-सूचिः

150) शि सर्वनामस्थानम् 1-1-42

वृत्ति: ‘शि’ इत्येतद् उक्तसञ्ज्ञं स्यात्। The affix शि gets the designation सर्वनामस्थानम्.

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55 – Here शि has the सर्वनामस्थान-संज्ञा