Table of Contents

<<7-1-79 —- 7-1-81>>

7-1-80 आच् छीनद्योर् नुम्

प्रथमावृत्तिः

TBD.

काशिका

अवर्णान्तादङ्गादुत्तरस्य शतुः वा नुमागमो भवति शीनद्योः परतः। तुदती कुले, तुअदन्ती कुले। तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी। याती कुले, यान्ती कुले। याती ब्राह्मणी, यान्ती ब्राह्मणी। करिष्यती कुले, करिष्यन्ती कुले। करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्नणी। अत्र अन्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावातवर्णान्ता दङ्गादुत्तरस्य शतुः इति न युज्यते वक्तुम्, उभयत आश्रये नान्तदिवतित्यन्तादिवद्भावो ऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती, घ्नती इत्येवम् आदिषु अतिप्रसङ्गः इति? अत्र समाधिं केचिदाहुः। शतुरवयवे शतृशब्दो वर्तते अवर्णान्तादङ्गादुत्तरो यः शत्रवयवः इति। अपरे पुनराहुः। आतित्यनेन शीनद्यावेव विशेष्येते। अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुम् भवति इति। तत्र येन नाव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातिति तकारेण एव व्यवधानम् आश्रयिष्यते। आतिति किम्? कुर्वती। सुन्वती। शीनद्योः इति किम्? तुदताम्। नुदताम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

367 अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः. तुदन्ती, तुदती. तुदन्ति..

बालमनोरमा

440 तुदच्छब्दादौङः श्याम्, असर्वनामस्थात्वान्नुमि अप्राप्ते–आच्छीनद्योर्नुम्। `नाभ्यस्तात्' इत्यतः शतुरिति, `वा नपुंसकस्य' इत्यतो वेति चानुवर्तते। आदिति पञ्चमी। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते, तच्च आदित्यनेन विशेष्यते , तदन्तविधिः। `परस्ये' त्यध्याह्यियते। `सथु'रित्यनन्तरमवयवस्येत्यध्याह्यियते, तेन च अह्गस्येति षष्ठ\उfffद्न्तं विशेष्यते, तदन्तविधिः। अङ्गस्येत्यस्य आवृत्तिर्बोध्या। तदाह–अवर्णान्तादित्यादिना। `इदितो नुमि'त्यतोऽनुवृत्त्यैव सिद्धे नुम्ग्रहणं स्पष्टार्थम्। तुदन्तीतुदती इति। औङः श्यां, नुमि, तदभावे च रूपम्। शविकरणे कृते शतुरकारेण पररूपे एकादेशे सति तुद इत्यवर्णान्तमङ्गम्, तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात्। ततश्च तुददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः। `अवर्णान्तादङ्गत्वात्। ततश्च तददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः। `अवर्णान्तादङ्गात्परो यः शतृप्रत्ययः' इत्याश्रयणे त्वत्र नुम् न स्यात्। शविकरणाऽकारस्य शतुरकारस्य च एकादेशे कृते तस्य पूर्वान्तत्वे शतुरवर्णान्तादङ्गात्परत्वा।?भावात्, परादित्वे अवर्णान्ताङ्गाऽभावात्, उभयत आश्रयणे च अन्तादिवत्त्वनिषेधादित्यलम्। तुदन्तीति। जश्शसोश्शिः, सर्वनामस्थानत्वान्नुमिति भावः। भादिति। `भादीप्तौ' लुग्विकरणः। लटः शतरि कृते सवर्णदीर्घे भादिति रूपम्। तस्मात् स्वमोर्लुक्, जश्त्वचर्त्वे इति भावः। भान्तीभाती इति। `औङः शी' `आच्छीनद्यो'रिति वानुमिति भावः। भान्तीति। जश्शसोः शिः, सर्वनामस्थानत्वान्नुमिति भावः। पचदिति। पच्धातोर्लटः शतरि शप्, अतो गुणे' इति पररूपम्। पचदित्यस्मात्स्वमोर्लुगिति भावः।

तत्त्वबोधिनी

397 आच्छीनद्योः। नुम्ग्रहणमिह चिन्त्यप्रयोजनं, `नाभ्यस्ताच्छतुः'`वा नपुंसकस्ये'त्यत्र `इदितो नुम्धातो'रित्यतोऽनुवृत्तेरावश्यकतया तदुत्तरत्रापि तत एवानुवर्तने बाधकाऽभावात्। शतुपवयव इति। तुदादेः शस्याऽन्तरङ्गत्वाच्छत्रेदेशाऽकारेण सहैकादेशे कृतेऽवर्णान्तत्परस्य शतुरिति न सम्भवति। `उभयत आश्रयणे नान्तादिव'दिति वक्ष्यमाणत्वादिति भावः। भादिति। `भा दीप्तौ'। लटः शतर्यदादित्वाच्छपो लुक्। शप्श्यनोर्नित्यम्। आरम्भसामथ्र्यान्नित्यत्वे सिद्धेऽपि नित्यग्रहणमिह `वे'त्यधिकारनिवृत्त्यर्थम्। अन्यथा ह्रारम्भसारथ्र्यादिह नित्यमुत्तरत्र विकल्प इत्याशङ्क्येत।

Satishji's सूत्र-सूचिः

266) आच्छीनद्योर्नुम् 7-1-80

वृत्ति: अवर्णान्‍तादङ्गात्‍परो यः शतुरवयस्‍तदन्‍तस्‍य नुँम् वा शीनद्योः । When a term which is part of a शतृँ-प्रत्यय: follows an अङ्गम् ending in the अवर्ण: (long or short अ), then an अङ्गम् ending in such a term will take the नुँम् augment optionally when the शी-प्रत्यय: or the feminine ङी-प्रत्यय: follows.

उदाहरणम् – तुदत् (neuter) + औ/औट् 4-1-2 = तुदत् + शी 7-1-19 (Note: The अङ्गम् (“तुद”) for the शतृँ-प्रत्ययः ends in the अवर्ण: (in this case an अकारः)) = तुद नुँम् त् + शी 7-1-80, 1-1-47 = तुदन्ती 1-3-2, 1-3-3, 1-3-8 = तुदंती 8-3-24 = तुदन्ती 8-4-58
or
तुदत् (neuter) + औ/औट् 4-1-2 = तुदत् + शी 7-1-19 = तुदती 1-3-8