आट् (1/1), नद्याः (5/1)| अनु. – ङिति, अङ्गस्य।
हिन्दी – [नद्याः] नदी संज्ञक अङ्ग से उत्तर ङित् प्रत्यय को [आट्] आट् आगम होता है।
नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य आडागमो भवति। कुमार्यै। ब्रह्मबन्ध्वै। कुमार्याः। ब्रह्मबन्ध्वाः।
The augment आट् is added to the case endings of the Dat., Abl. and Gen.Sg. after stem called नदी। 1-4-3
197 नद्यन्तात्परेषां ङितामाडागमः..
266 आण्नद्याः। `अङ्गस्ये'-त्यधिकृतं पञ्चम्या विपरिणम्यते। `नद्या'इति पञ्चम्यन्तेन विशेष्यते, तदन्तविधिः। `घेर्ङिती'त्यतो `ङिती'त्यनुवृत्तं षष्ट\उfffदा विपरिणम्यते, तदाह-नद्यन्तादित्यादिना।
228 आण्नद्यः। `आण्नद्याः'इत्येव सुवचम्, विधानसमाथ्र्यात् `अतो गुणे' इत्यस्याऽप्रवृत्तौ यथायथं वृद्धिसवर्णदीर्घाभ्यां `बहुश्रेयस्यै' `बहुश्रेयस्या'इत्यादिरूपसिद्धेः। ननु `परत्वादाटा नुङ् बाध्यते'इत्युत्तरग्रन्थपर्यालोचनया ङेरामि कृते तस्य नुडागमनिवारणार्थमड्विधेरावश्यकत्वात्सामथ्र्यमुपक्षीमिति चेत्, एवं तर्हि `ह्यस्वनद्यापः'इत्यन्तरं `ङेर्ने'त्येव सूत्र्यतामामीत्यनुवृत्त्या `ङेरामो नुण्ने'त्यर्थलाभात्। तस्मात् `अण्नाद्याः'इति विधानसामथ्र्यात् `अतो गुणे'इति न प्रवर्तते इति दिक्।