Table of Contents

<<6-1-109 —- 6-1-111>>

6-1-110 ङसिङसोश् च

प्रथमावृत्तिः

TBD.

काशिका

एङः इति वर्तते, अति इति च। एङः उत्तरयोः ङसिङसोः अति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। अपदान्तार्थः आरम्भः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

173 एङो ङसिङसोरति पूर्वरूपमेकादेशः. हरेः 2. हर्योः 2. हरीणाम्..

बालमनोरमा

244 ङसिङसोश्च। `एङः पदान्ता'दित्यत `एङ' इति, `अती'ति चानुवर्तते। `अमि पूर्व' इत्यतः `पूर्व' इत्यनुवर्तते। `एकः पूर्वपरयोः' इत्यधिकृतं, तदाह–एङो ङसिङसोरिति। हरेरिति। पूर्वरूपे रुत्वविसर्गौ पञ्चम्येकवचनस्य षष्ठ\उfffदेकवचनस्य च रूपमेतत्। यद्यपि ङसिङसौ द्वौ, एङौ च द्वौ, तथापि न यथासङ्ख्यमिष्यते। `यथासङ्ख्यमनुदेशः समाना, स्वरितेने'ति सूत्रच्छेदमभ्युपगम्य यत्र स्वरिततं प्रतिज्ञातं तत्रैव यथासङ्ख्याविज्ञानादिति यथासङ्ख्यसूत्रभाष्ये स्पष्टम्। `अच्च घेः' `उपसर्गे घोः किः' इत्यादिनिर्देशाच्च। हर्योरिति। षष्ठीद्विवचने यणादेशे रूपम्। हरीणामिति। `ह्यस्वनद्यापः' इति नुट्। `नामी'ति दीर्घः। `अट्कुप्वा'ङिति णत्वम्।

तत्त्वबोधिनी

205 ङसिङसोश्च। इह ङसिङसौ द्वौ, एङावपि द्वौ, तयोर्यथासङ्ख्यं न, अस्वरितत्वात्। अल्पाच्यतरस्य पूर्वनिपाताऽकरणाल्लिङ्गात्, `अच्च घेः' `उपसर्गे घोः कि'रिति निर्देशाच्च।

Satishji's सूत्र-सूचिः

84) ङसिँङसोश्च 6-1-110

वृत्ति: एङो ङसिँङसोरति पूर्वरूपमेकादेश: । In place of a preceding एङ् (“ए”, “ओ”) letter and the following short “अ” of the affix “ङसिँ” or “ङस्”, there is a single substitute of the former (एङ् letter.)

गीतासु उदाहरणम् – श्लोकः bg18-77

हरि + ङस् 4-1-2 = हरे + ङस् 7-3-111 = हर् ए + अ स् 1-3-8, 1-3-4 = हरेस् = हरे: 8-2-66, 8-3-15
हरि + ङस् = हरि + अस् 1-3-8, 1-3-9, 1-3-4 = हर् ए + अ स् 7-3-111, 1-1-52 = हर् ए स् 6-1-110 = हरे: 8-2-66, 8-3-15