Table of Contents

<<6-1-90 —- 6-1-92>>

6-1-91 उपसर्गादृति धातौ

प्रथमावृत्तिः

TBD.

काशिका

आतित्येव। अवर्णान्तादुपसर्गातृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति। उपसर्गातिति किम्? खट्वर्च्छति। मालर्च्छति। प्रगता ऋ च्छका अस्माद् देशात् प्रर्च्छको देशः। यत्क्रियायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः इति। ऋति इति किम्? उप इतः उपेतः। तपरकरणम् किम्? उप ऋकरीयति उपर्कारीयति। वा सुप्यापिशलेः 6-1-92 इति विकल्पः स्यात्। उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम्। ऋत्यकः 6-1-128 इति हि शाकल्यस्य प्रक्र्तिभावः प्राप्नोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

37 अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्. प्रार्च्छति..

बालमनोरमा

75 उपसर्गादृति। आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते। तच्च उपसर्गाविशेषणम्, अतस्तदन्तविधिः। अकारान्तादिति लभ्यते। ऋतीति धातोर्विशेषणम्। यस्मिन्विधिरिति तदादिविधिः। ऋकारादाविति लभ्यते। वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते। `एकः पूर्वपरयो'रित्यधिकृतम्। तदाह–अवर्णान्तादित्यादिना। एकादेश इति। `पूर्वपरयोरचो'रिति शेषः। अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात्। उपाच्र्छति प्राच्र्छतीति। उप ऋच्छतिं प्रऋच्छति इति स्थिते गुणे प्राप्तेऽनेन वृद्धी- रपरत्वम्।

तत्त्वबोधिनी

62 उपसर्गादृति। उपसर्गात्किम् ?, खट्वच्र्छति। ऋति किम् ?, उपेतः। तपरकरणमुत्तरार्थम्। इह दीर्घर्कारादेर्धातोरसंभवेन व्यावर्त्त्याऽलाभात्। धातौ किम् ?, उपर्कारः। नन्वत्र `उपेत्युपसर्ग एव न भवति, क्रियायोग एवोपसर्गत्वात्। उपगत ऋकार इति विगृह्र क्रियायोगत्वसंपादनेऽपि `यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञः' इति ऋकारं प्रति अनुपसर्ग एव। तथा चाऽकृतेऽपि धातुग्रहणे ऋकारादिधातावेव वृद्धिर्भविष्त्यनुपसर्गेण धातोराक्षेपात्, नत्वत्रेति चेत्सत्यम्; अतएव `योगविभागेन पुनर्विधानार्थ'मित्यनुपदं वक्ष्यतीति न काप्यनुपपत्तिः।

Satishji's सूत्र-सूचिः

TBD.