घे(6/1), ङिति (7/1)| अनु.– गुण:, अङस्य, सुपि।
हिन्दी – [घे:] घिसंज्ञक अङ्ग को [ङिति] ङित् सुप् प्रत्यय परे रहते गुण होता है। ङे, ङसिँ, ङस् तथा ङि ये ङित् प्रत्यय होते है।
घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति। अग्नये। वायवे। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। घेः इति किम्? सख्ये। पत्ये। ङिति इति किम्? अग्निभ्याम्। सुपि इत्येव, पट्वी। कुरुतः।
For the इ and उ of the stems called घि 1-4-3 गुणा is substituted in Dative, Ablative and Genitive Singular.
172 घिसंज्ञस्य ङिति सुपि गुणः. हरये. हरिभ्याम्. हरिभ्यः..
243 घेर्ङिति। `सुपि चे'त्यतः `सुपी'ति `ह्यस्वस्ये'त्यतो `गुण' इति चानुवर्तते। तदाह-घिसंज्ञकस्येत्यादिना। यणोऽपवादः। हरये इति। गुणे ?यादेशः। सुपि किं पट्वीति। `वोतो गुणवचना'दिति ङीष्। तस्य ङित्त्वेऽपि सुप्त्वाऽभावात्तस्मिन् परतो न गुण इत्यर्थः। नच `घेङी'त्येव सूत्र्यताम्, इद्ग्रहणं न कर्तव्यम्, `यस्मिन् विधि'रिति परिभाषया ङकारादौ सुपीत्यर्थलाभादिति वाच्यम्, एवं सति `आण्नद्याः' इत्यत्रापि ङीत्येवानुवृत्तौ ङकारादेराम आङ्विधीयेत। ततश्च `मत्या'मित्यत्र आण्न स्यात्। आमो ङादित्वाऽभावात्। नच स्थानिवद्भावेन ङादित्वं शङ्क्यम्। अल्विधित्वात्। स्थानिनो ङेर्ङकारस्य इत्संज्ञालोपाभ्यामपह्मतत्वेन आम्स्थान्यल्त्वाऽभावात्, अनुबन्धानामनेकान्तत्वात्। एकान्तत्वपक्षे।ञपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति, `अनेकाल्शित्सर्वस्ये'त्यत्र शिद्ग्रहणाज्ज्ञापकात्। अन्यथा `इदम इ' शित्यादिशितां शकारेणानुबन्धेन सहानेकाल्त्वादेव सिद्धे किं तेन ?। अतएव तिबाद्यादेशेषु पित्त्वादि सिध्यति। अत एव तिबाद्यादेशेषु पित्त्वादि सिध्यति। अत एव `सेह्र्रपिच्चे'त्यत्र अपिदित्यर्थवत्। अन्यथा पित्कार्यस्याऽल्विध#इत्वात्तत्र स्थानिवद्भावस्यैवाऽप्रसक्त्या हेः पित्त्वस्यैवाऽप्रसक्तौ किं तन्निषेधेन ?। तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम्। गुणे कृते इति। `ङसिङसो'रिति शेषः। हरे-अस् इति स्थितेऽपदान्तत्वात् `एङः पदान्ता'दिति पूर्वरूपे अप्राप्ते, अयादेशे प्राप्ते–।
–
83) घेर्ङिति 7-3-111
वृत्ति: घिसंज्ञकस्य ङिति सुँपि गुण: । When followed by a सुँप् affix which has ङकार: as a इत्, a अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 the गुण: substitution takes place only for the ending letter (in this case “इ” or “उ”) of the अङ्गम्।
गीतासु उदाहरणम् – श्लोकः bg4-1
मनु + ङे = मनो + ङे = मनो + ए 1-3-8 = मनवे 6-1-78