TBD.
धातोरादेः षकारस्य स्थाने सकारादेशो भवति। षह सहते। षिच सिञ्चति। धातुग्रहणं किम्? सोडश। षोडन्। षण्डः। षडिकः। आदेः इति किम्? कषति। लषति। कृषति। आदेश प्रत्यययोः 8-3-59 इत्यत्र षत्वव्यवस्थार्थम् षादयो धातवः केचिदुपदिष्टाः। के पुनस् ते? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते, अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च, सृपिसृजिस्तृस्त्यासेक्षृवर्जम्। सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः। षोडीयति। षण्डीयति। ष्ठीवति। ष्वष्कते। ष्ठिवु इत्यस्य द्वितीयस्थकारष्ठकारश्च इष्यते। तेन तेष्ठीव्यते, टेष्ठीव्यते इति च अभ्यासरूपं द्विधा भवति।
TBD.
256 स्नुक्, स्नुग्, स्नुट्, स्नुड्. एवं स्निक्, स्निग्, स्निट्, स्निड्.. विश्ववाट्, विश्ववाड्. विश्ववाहौ. विश्ववाहः. विश्ववाहम्. विश्ववाहौ..
108 दात्वादेः। `ष' इति षष्ठ\उfffद्न्तं। तदाह–धातोरादेः षस्य सः स्यादिति। षकारस्य सः स्यादित्यर्थ-। धातुग्रहणं किम् ?। षट्। अत्र धात्वादित्वाऽभावान्न सकारः। आदिग्रहणं किम् ?। लषति। न चैवमपि षकारीत्यतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम्, `आदेच उपदेशेऽशिती'त्यत उपदेश इत्यनुवृत्तेः। एवं च ष?डित्यादावप्युदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम्। ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम्। एवं च `धात्वादेः षः सः' इत्यपि मास्त्विति चेन्मैवं, ण्यन्ताल्लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात्। धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाऽभावेन षत्वाऽसंभवात्। नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात्त्वापत्तिरित्यत आह– सात्पदाद्योरिति। सस्वद इति। लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः। उर्देति। चकारादास्वादनेऽपीति केचित्।
83 धातुग्रहणं किम् ?। षट् षड्। आदेः किम् ?। लषति।
355) धात्वादेः षः सः 6-1-64
वृत्तिः धातोरादेः षकारस्य स्थाने सकारादेशो भवति । There is the substitution of सकारः in the place of the initial षकारः of a धातुः in the धातु-पाठः।
गीतासु उदाहरणम् v1-29 – सीदन्ति (√सद्, षद्ऌँ विशरणगत्यवसादनेषु १. ९९०), लँट्, कर्तरि-प्रयोगः, बहुवचनम्।
षद्ऌँ = √सद् 6-1-64, 1-3-2
सद् + लँट् 3-4-69, 3-2-123 = सद् + ल् 1-3-2, 1-3-3
= सद् + झि 3-4-78, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= सद् + शप् + झि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = सीद + शप् + झि 7-3-78
= सीद + अ + झि 1-3-3, 1-3-8 = सीद + झि 6-1-97 = सीद + अन्त् इ 7-1-3 = सीदन्ति 6-1-97