Table of Contents

<<3-1-34 —- 3-1-36>>

3-1-35 कास्प्रत्ययादाम् अमन्त्रे लिटि

प्रथमावृत्तिः

TBD.

काशिका

कासृ शब्दकुत्सायाम्, ततः प्रत्ययान्तेभ्यश्च धातुभ्यः आम् प्रत्ययो भवति लिटि परतो ऽमन्त्रविषये। कासाञ्चक्रे। प्रत्ययान्तेभ्यः लोलूयाञ् चक्रे। अमन्त्रे इति किम्? कृष्णो नोनाव। कास्यनेकाचः इति वक्तव्यम् चुलुम्पाद्यर्थम्। चकासाञ्चकार। दरिद्राञ्चकार। चुलुम्पाज्चकार। आमो ऽमित्वम् अदन्तत्वादगुणत्वं विदेस् तथा। आस्कासोरां विधानाच् च पररूपं कतन्तवत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

149 तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः। तत्र आयप्रत्ययपक्षे आह— कास्प्रत्ययात्। आम्–अमन्त्रे इति च्छेदः। चकासृ दीप्तौ, जागृ निद्राक्षये इत्यादिभ्योऽपि लिटि आमिष्यते। प्रत्ययान्ताच्चेति लभ्यते। ततश्च अ इवाचरति अति। क्विबन्ताल्लडादयः। लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात्। यदि तु कासृधातोश्च, अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह–प्रत्यग्रहणमपनीयेति। तथाच कास्धातोरनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः। वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते। तथा च गोपया– आमिति स्थितम्।

तत्त्वबोधिनी

122 कास्प्रत्यया। अमन्त्रेति किम् ?। कृष्णो नोनाव। अच्छन्दसीति तु नोक्तं, मन्त्रभिन्ने छन्दसि आम इष्टत्वात्। यथा– `पुत्रमामन्त्रयामास'। प्रत्ययान्तत्वादाम्। `अथ ह शुनः शेप ईक्षांचक्रे'। `इजादेश्चे'त्याम्। इह चुलुम्पचकासृदरिद्रादिब्य आमोऽप्राप्तौ `कास्यनेकाच' इति वार्तिकमारभ्यते। अन्यथा अ इवाचरति अति। अस्य लिटि औ अतुरित्यादि वक्ष्यमाणं न सिध्येदिति भावः। अन्ये तु भाष्यावार्तिकयोः प्रत्ययग्रहणमपनीयेत्यनुतया प्रत्ययान्तादेकाचोप्याम् भवत्येव। अ इवाचरति इत्याचारक्विपि लिटि आंचकार आंचक्रतुरित्यादीत्याहुः।

Satishji's सूत्र-सूचिः

वार्त्तिकम् - कास्यनेकाच आम् वक्तव्यो लिटि। When लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

Note: आमो मकारस्य नेत्त्वम्। आस्कासोराम्विधानाज्ज्ञापकात्। The ending मकार: of “आम्” does not get the इत्-सञ्ज्ञा (by 1-3-3). We know this by the fact that आम् has been prescribed after the verbal roots √कास् (by 3-1-35) and √आस् (by 3-1-37). (If the मकार: were to be a इत्, then as per 1-1-47, आम् would join after the last vowel (आकार:) of √कास्/√आस् and adding आम् to √कास्/√आस् would be futile because we would get back the same form √कास्/√आस्।)

गीतासु उदाहरणम् – दर्शयामास derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). विवक्षा is लिँट्, कर्तरि-प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

दर्शयामास पार्थाय परमं रूपमैश्वरम्‌ || 11-9||

दृश् + णिच् 3-1-26

= दृश् + इ 1-3-3, 1-3-7, 1-3-9

= दर्श् + इ 7-3-86, 1-1-51

= दर्शि । “दर्शि” gets the धातु-सञ्ज्ञा by 3-1-32

दर्शि + लिँट् 3-2-115

= दर्शि + आम् + लिँट् 3-1-35

Example continued under 6-4-55.