Table of Contents

<<3-1-35 —- 3-1-37>>

3-1-36 इजादेश् च गुरुमतो ऽनृच्छः

प्रथमावृत्तिः

TBD.

काशिका

इजादिर् यो धातुर् गुरुमानृच्छतिवर्जितः, तस्माच् च लिटि परत आम् प्रत्ययो भवति। ईह चेष्टायाम्। ऊह वितर्के। ईहाञ्चक्रे। ऊहाञ्चक्रे। इजादेः इति किम्? ततक्ष। ररक्ष। गुरुमतः इति किम्? इयज। उवप। अनृच्छः इति किम्? आनर्च्छ, आनर्च्छतुः, आनर्च्छौः। ऊर्णोतेश्च प्रतिषेधो वक्तव्यः। प्रोर्णुनाव। अथ वा वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

513 इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि..

बालमनोरमा

83 इजादेश्च। नञ ऋच्छ इत्यनेन समासेऽनृच्छ इत्यस्मात्पञ्चमी। `धातोरेकाच' इत्यतो धातोरित्यनुवर्तते। `कास्प्रत्यया'दित्यत आमिति,लिटीति चानुवर्तते तदाह- - इजादिरित्यादिना। आस्कासोरिति। `कास्प्रत्ययादाममन्त्रे लिटी'ति , `दयायासश्चे'ति च कास्धातोः, आस्धातोश्चलिटि आम्विहितः। तत्र मकारस्य इत्संज्ञकत्वे `मिदचोऽन्त्यात्पर' इति आकारादाकारान्तरं स्यात्। ततश्च सवर्णदीर्घे कृते कास् आस् इत्येव भवतीति आम्विधिरनर्थकः स्यात्। अत आमो मकारस्य नेत्संज्ञेति विज्ञायत इत्यर्थः। तथा च एध् आम् ल इति स्थिते–

तत्त्वबोधिनी

64 `धातोरेकाचः' इत्यतो धातुग्रहणं `कास्?प्रत्यया'दित्यत आम् लिटीति चानुवर्तत इत्याह— इजादिर्यो धातुरित्यादि। गुरुमान् किम् ?। इयेष। ऋच्छेस्त्वानच्र्छ॥

Satishji's सूत्र-सूचिः

वृत्ति: इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि। When लिँट् follows, the affix आम् is prescribed after a धातु: -other than √ऋच्छ् (ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) - that begins with a इच् letter that has the गुरु-सञ्ज्ञा।

उदाहरणम् – एधांचक्रे/एधाञ्चक्रे derived from √एध् (एधँ वृद्धौ १. २). विवक्षा is लिँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

एध् + लिँट् 3-2-115

= एध् + आम् + लिँट् 3-1-36. Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93

= एधाम् 2-4-81. Now “एधाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62

= एधाम् + सुँ 4-1-2

= एधाम् 2-4-81

= एधाम् + कृ + लिँट् 3-1-40

Example continued under 1-3-63