Table of Contents

<<6-4-54 —- 6-4-56>>

6-4-55 अयामन्ताऽल्वाय्यैत्न्विष्णुषु

प्रथमावृत्तिः

TBD.

काशिका

आम् अन्त आलु आय्य इत्नु इष्णु इत्येतेषु परतः णेः अयादेशो भवति। कारयञ्चकार। हारयाज्चकार। अन्त गण्डयन्तः। मण्डयन्तः। आलु स्पृहयालुः। गृहयालुः। आय्य स्पृहयाय्यः। गृहयाय्यः। इत्नु स्तनयित्नुः। इष्णु पोषयिष्णुः। पारयिष्णवः। न इति वक्तव्ये अयादेशवचनम् उत्तरार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

528 आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात्. कामायाञ्चक्रे. आयादय इति णिङ् वा. चकमे. चकमाते. चकमिरे. चकमिषे. चकमाथे. चकमिध्वे. चकमे. चकमिवहे. चकमिमहे. कामयिता. कामयितासे. कमिता. कामयिष्यते, कमिष्यते. कामयताम्. अकामयत. कामयेत. कामयिषीष्ट..

बालमनोरमा

152 अयामन्ता। अयति छेदः। `णेरनिटी'त्यतो णेरित्यनुवर्तते। तदाह–णेरयादेशः स्यादिति। तथा च कामयामित्यमन्तं स्थितम्। ततः `कृञ्चानुप्रयुज्यते' इत्यनुप्रयोगाल्लिडिति मत्वाह– कामयांचक्र इति। णिङ आयादिष्वन्तर्भावाल्लिडादावाद्?धधातुके तद्विकल्पमुक्तं स्मारयति— आयादय इति। चकम इति। सेट्कोऽयम्। चकमिषे। चकमिध्वे।चकमिवहे। चकमिमहे। कामयियेति। लुटि णिङपक्षे तासि इटि वृद्धौ गुणेऽयादेशे रूपम्। कामयताम्। अकामय।कामयेत। कामयिषीष्ट- -कमिषीष्ट।

तत्त्वबोधिनी

125 `नामन्ते'ति सूत्रितेऽपि `णेरनिटी'ति वक्ष्यमाणलोपस्य निषेधे गुणाऽयादेशयोः सतोः `कामयांचक्रे' इत्यादिरूपाणि सिद्यन्त्येव, तथापि `ल्यपि लघुपूर्वा'दित्येवमर्थमयादेशवचन्। प्रस्तनय्य। सङ्गमय्य। नह्रत्र गुणाऽयादेशौ लभ्येते।

Satishji's सूत्र-सूचिः

वृत्तिः आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । The affix “णि” is substituted by “अय्” when followed by any one of the following affixes - “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

Example continued from 3-1-35

दर्शि + आम् + लिँट्

= दर्शय् + आम् + लिँट् 6-4-55

Example continued under 2-4-81