Table of Contents

<<3-1-36 —- 3-1-38>>

3-1-37 दयायाऽसश् च

प्रथमावृत्तिः

TBD.

काशिका

दय दानगतिरक्षणेषु, अय गतौ, आस उपवेषने, एतेभ्यश्च लिटि परत आम् प्रत्ययो भवति। दयञ्चक्रे। पलायाञ् चक्रे। आसाञ् चक्रे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

538 दय् अय् आस् एभ्य आम् स्याल्लिटि. अयाञ्चक्रे. अयिता. अयिष्यते. अयताम्. आयत. अयेत. अयिषीष्ट. विभाषेटः. अयिषीढ्वम्, अयिषीध्वम्. आयिष्ट. आयिढ्वम्, आयिध्वम्. आयिष्यत.. द्युत दीप्तौ.. 4.. द्योतते..

बालमनोरमा

164 दायायासश्च। दय अय आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। `कास्प्रत्यया'दित्यत आम् लिटीत्यनुर्तते। तदाह–एभ्य आम् स्याल्लिटीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.