TBD.
धातोरित्ययमधिकारो वेदितवयः। आ तृतीयाध्यायपरिसमाप्तेः यदित ऊर्ध्वम् अनुक्रमिष्यामो धातोः इत्येवं तद् वेदितव्यम्। वक्ष्यति तव्यत्तव्यानीयरः 3-1-96 इति। कर्तव्यम्। करणीयम्। धातुग्रहनम् अनकर्थकं यङ्विधौ धात्वधिकारात्। कृदुपपदसज्ञार्थं तर्हि, अस्मिन् धात्वधिकारे ते यथा स्यातां, पूर्वत्र मा भूताम् इति। आर्धधातुकसंज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम्। धातोः इत्येवं विहितस्य यथा स्यात्। इह मा भूत्, लूभ्याम्, लूभिः इति।
TBD.
769 आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः. कृदतिङिति कृत्संज्ञा..
650 धातोः। आ तृतीयेति। आतृतीयाध्यायपरिसमाप्तेरित्यर्थः। एतच्च भाष्ये स्पष्टम्। तत्रोपपदं कृदतिङिति। व्याख्यातं प्राक्।
541 धातोः। ननु तिङ्निरूपणात्प्रागेव `स्पृशोऽनुदके क्विन्' `ऋत्विद्गधृ'गित्यादिना क्विन्नादिनिरूपणं कृतमिति कथमियं भवदुक्तसङ्गतिः सङ्गच्छत इतिचेत्। अत्राहुः– क्विन्नादिनिरूपणस्य तत्र प्रासङ्गिकत्वात्, प्राधान्येन च कृतामत्रैव निरूपणान्नोक्तशङ्कावकाशैति। यद्यपि `धातोरेकाचो हलादे'रिति सूत्राद्धातोरित्यनुवर्तत एव तथापि आद्र्धातुकसंज्ञाया आश्रितशब्दव्यापारत्वलाभाय पुनर्धातोरिति ग्रहणं कृतम्। अन्यथा `आद्र्धधातुकं शेषः' इत्यनेन तिङ्शिद्भिन्नस्य धातोर्विहितप्रत्ययमात्रस्याद्र्धधातुकसंज्ञायां लूभ्यां पूभ्यामित्यादाविड्गुणो स्यातां, धातोर्विहितत्वेन ब्यामादेराद्र्धधातुकत्वात्, पुनर्धातुग्रहणे कृते तु तव्यतव्यादय इव धातोरित्यवमविधानाद्भ्यामादेराद्र्धधातुकत्वं नेति दिक्। `प्राग्लादेशाद्धात्वधिकारः' इति पक्षोऽयुक्त इत्याशयेनाह– आतृतीयसमाप्तेरिति। तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः। `प्राग्लादेशा'दिति पक्षे तु `तिह्शित्सार्वधातुक'मित्यत्र धातोरित्यधिकाराऽभावात् शित्प्रत्ययमात्रस्य सार्वधातुकत्वेन शसोऽपि सार्वधातुकत्वे `सार्वधातुकमपि'दिति ङित्त्वे च हरीनित्यादौ `घेर्ङिती' ति गुणः स्यादिति ज्ञेयम्। स्यादेतत्— धातोर्लकारे सति तस्मिन् परतो नित्यत्वात्करिष्यतीत्यादौ प्रथमं स्यप्रत्ययप्रवृत्तौ तिबाद्यप्रसङ्गः, यत्र तु तिबाद्याश्रयो विकरणस्तत्रैव व्यवधानाऽभावाद्भवतित्यादौ तिबादयः स्युरिति चेत्। मैवम्। `विकरणेभ्यो नियमो बलीया' निति स्वीकारात्। अथवा विहितविशेषणाश्रयणेन धातोर्विहितस्य लस्येति व्याख्यानादिष्टसिद्धेः। नन्वेवं विहितविशेषणाश्रयणे `विद्लृ लाभे' इत्यस्माद्धातोर्विहितस्य लटः शब्विकरणव्यवायेऽपि `विदो लटो वा' इति णलादयः स्युरिति चेत्। अत्राह हरदत्तः- - धातुनाऽत्र विहितं विशेष्यते, विदना त्वानन्तर्यमिति। तथा चायमर्थः संपद्यते – धातोर्विहितस्य विदोऽनन्तरस्य लटो णलादय इत्यब्युपगमाद्वेत्तेरेव विहितस्य लटो णलादयो भवन्ति न तु विदन्तेर्लडिति दिक्। विधेयाऽनिर्देशात्स्वरितत्वाच्चाधिकारसूत्रमिदमित्याह—अधिकारोऽयमिति। तत्रोपपदमित्यादि। एतेन कृत्संज्ञोपपदसंज्ञयोरिह विधानसौष्ठवाय द्वितीयो धात्वधिकार आवश्यक इति ध्वनितम्। अयं भावः– यदि द्वितीयधात्वधिकारो न स्यात्तदा पूर्वधात्वधिकारेऽपि कृदुपपदसंज्ञे स्याताम्। इष्टापत्तौ तु सप्तमीनिर्दिष्टमात्रस्योपपदत्वेन `च्लि लुङी' त्यादौ लुङन्त#ए उपपदे च्लिरित्यवमनिष्टोऽर्थः प्रसज्येत। तिङ्बिन्नधात्वधिकारप्रत्ययस्य कृत्संज्ञायां करिष्यतीत्यादौ स्यप्रत्ययस्य कृत्त्वेन `कृत्तद्धिते' तिप्रापतिपदिकत्वादौत्सर्गिकमेकवचनमिति सर्वसंमतत्वेन सुप्रत्ययप्रसङ्गाच्च, तस्मादधिकारविशेषे अनयोः संज्ञयोर्विधानार्थमयमधिकार इति।
वृत्तिः आ तृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । The affixes prescribed by the rules starting from 3-1-91 up to the end of Chapter Three (of the अष्टाध्यायी) are to be used following a verbal root.