Table of Contents

<<7-2-102 —- 7-2-104>>

7-2-103 किमः कः

प्रथमावृत्तिः

TBD.

काशिका

किम् इत्येतस्य कः इत्ययम् आदेशो भवति विभक्तौ परतः। कः, कौ, के। साकच्कस्य अप्ययम् आदेशो भवति, तेन अकार एव किमो न विधीयते किमो ऽत् 5-3-12 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

273 किमः कः स्याद्विभक्तौ. कः. कौ. के इत्यादि. शेषं सर्ववत्..

बालमनोरमा

तस्य विशेषमाह-किमः कः। विभक्ताविति। `अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः। ननु `इमः' इत्येव सूत्र्यतां। `त्यदादीनाम' इत्यनुवृत्तौ त्यदादीनामिमोऽकारः स्यादित्यर्थलाभात्। `द्विपर्यन्ताना'मिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात्। एवं च किंशब्दे `इम्' इत्यस्य स्थाने अकारे सति `क' इत्यदन्तत्वं सिध्यति। नच `अलोऽन्त्यस्ये'ति किंशब्दे इमोमकारस्यैव अकारः स्यात्। ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम्, `नानर्थकेऽलोन्त्यविधिः' इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे सति `क' इत्यस्य सिद्धेरित्यत आह-अकच्सहितस्येति। त्यदादेरिमोऽकारविधौ `अव्ययसर्वनाम्ना'मिति किंशब्दस्य अकचि कृते ककिमिति स्थिते इमोऽकारे कृते `कक' इति रूपं स्यात्। `किमः कः' इत्युक्तौ तु साकच्कस्यापि किंशब्दस्य `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते' इति न्यायेन किंशब्दत्वात्तस्य कादेशे सति `क' इत्येव रूपं सिध्यतीति भावः। अत्र त्यदादीनामित्यनुवर्त्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम्। अतः सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति। एवं च विभक्त्युत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि। मारुते वेधसि ब्राध्ने पुंसि कः, कं शिरोऽम्बुनोः' इत्यमरः। तत्र कशब्दस्य किंशब्दत्वाऽभावान्न सर्वनामत्वम्। वेधसि तु किंशब्दोऽप्यस्ति। तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयं `कस्येत्' इति सूत्रे भाष्ये स्थितम्। कायं हविरित्यत्र यदि किमः कादेशो, यदि वा शब्दान्तरम्, उभयथापि `कस्मा अनुब्राऊही'ति भवितव्यम्। सर्वस्य सर्वनामसंज्ञा। सर्वश्च प्रजापतिः। प्रजापतिश्च कः। अपर आह–उभयथापि कायानुब्राऊहीत्येव संज्ञैषा तत्रभवत इति।

तत्त्वबोधिनी

302 किमः कः। `कायतोर्डिमि'रिति डिमिप्रत्यये निष्पन्नः किंशब्दः। विभक्ताविति। `अष्टन आ विभक्ता'वित्यतोऽनुवर्तत इति बावः। नन्वत्र`इमः'इत्येव सूत्र्यताम्स तेन तिमष्ठिमादीनां क्विबन्तानामतिप्रसङ्गवारणाय त्यदादीनामित्यनुवर्त्त्य `त्यदादीनामिमः अः स्या'दिति व्याख्यास्यते द्विशब्दात्प्रा\उfffद्क्कशब्दस्य पाठः कर्तव्यः। `नानार्थके'इति निषेधादारम्भसामथ्र्याच्चालोन्त्यविधिर्न भविष्यति, त\उfffद्त्क कादेशेनेत्यत आह–अकच्सहितस्यापीति। इमोऽकारविधौ तु साकच्कस्य `कक'इति रूपं स्यादिति भावः। नन्वेवं गणकार्यत्वाऽभावादुपसर्जनत्वेऽपि स्यात्, मैवम्, `त्यदादीना'मित्यनुवर्त्त्य`त्यदादीनां किम'इति व्याख्यानात्।

Satishji's सूत्र-सूचिः

183) किमः कः 7-2-103

वृत्ति: किमः कः स्याद् विभक्तौ। When a विभक्तिः affix follows, “किम्” gets “क” as its replacement.

गीतासु उदाहरणम् – श्लोकः bg2-21

किम् + अम् 4-1-2 = क + अम् 7-2-103, 1-1-55 = क + अम् 1-3-4 = कम् 6-1-107