Table of Contents

<<8-1-15 —- 8-1-17>>

8-1-16 पदस्य

प्रथमावृत्तिः

TBD.

काशिका

पदस्य इत्ययम् अधिकारः प्रागपदान्ताधिकारात्। यदित ऊर्ध्वम् अनुक्रमिष्यामः पदस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति संयोगान्तस्य लोपः 8-2-23। पचन्। यजन्। पदस्य इति किम्? पचन्तौ। यजन्तौ। वक्ष्यमाणवाक्यापेक्षया पदस्य अधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्याः क्वचित् स्थानषष्ठी, क्वचिदवयवषष्ठी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

354 पदस्य। `अपदान्तस्य मूर्धन्यः'इति विरोधिनिर्देशात्प्राक्?पदस्येत्ययमधिकारः। तेन `राजा' राजभ्या'मित्यादौ `नलोपः प्रातिपदिकान्तस्ये'ति नलोपः सिध्यति। न तु `राजानौ'राजान'इत्यत्र। तथा `गोमान्'`यवमा'नित्यादौ संयोगान्तलोपो, न तु `गोमान्तौ'`यवमन्ता'वित्यादौ। तथा `मो नो धातोः'इति नत्वं `प्रशान्भ्या'मित्यादौ भवति न तु `प्रशमौ'प्रशाम्'इत्यत्र। तथा `हरिं वन्दे'इत्यादौ `मोऽनुस्वारः'प्रवर्तते, न तु `गम्यते'इत्यादौ। नच `उञि च पदे'इत्यतः `पदे'इत्यधिकारात्पदे परतो मस्याऽनुसव्रः स्यात्, न तु गम्यत इत्यत्रेति किमिह पदस्येत्यधिकारेणेति वाच्यं, `पुंस्वि'ति रूपाऽसिद्धिप्रसङ्गात्। तस्मात् `मोऽनुस्वारः'इत्यत्र `पदस्ये'त्यनुवर्तनीयमेव। `पदे'इत्यस्योत्तरसूत्रेऽप्युपयोगो नास्तीति `उञिच पदे'इत्यत्राऽवोचाम। इह `पदस्यो#ए'ति संबन्धसामान्ये षष्ठी, सा तूत्तरेषु वाक्येषु यथायोगं सम्बन्धविशेषेऽवतिष्ठते। क्वचित्स्थाने षष्ठी, क्वचिदवयवषष्ठीति। तत्र `संयोगान्तस्य लोपः'`मो नो धातोः' `मोऽनुस्वारः'इत्यादौ पदस्येति स्थानषष्ठी। अवयवषष्ठ\उfffदान्तूक्ताऽतिप्रसङ्गात्। `मादुपधाया'इत्यादौ त्ववयवषष्ठी। अन्यथा `वृक्ष्वा'निप्यत्रैव मतुपोमस्य वत्वं स्यान्न तु `वृक्षवन्तौ'`वृक्षवन्त'इत्यत्र। एतच्चानुपपादयिष्यते। यद्यपि `षष्ठी स्थानेयोगे'ति परिभाषया `पदस्ये'त्?यत्र स्थानषष्ठ\उfffदेव लभ्यते, न त्ववयवषष्ठी, तथापि सनलोपस,#ऊत्रे अन्तस्येति ग्रहणाज्ज्ञापकादवयवषष्ठ\उfffद्पिलभ्यते। यदि तु `पदस्ये 'ति स्थानषष्ठ\उfffदेव स्यात्तर्हि नान्तस्य पदस्य लोपो भवन्नलोऽन्त्यस्य स्यादिति अन्तग्रहणमनर्थकं स्यात्। अवयवषष्ठ\उfffद्ङ्गीकारे चु `अन्तस्ये'ति ग्रहणं सार्थकम्। तद्यथा,–नलोपसूत्रे `प्रातिपदिकान्तस्ये'त्यसमासनिर्देशः। प्रातिपदिकसंज्ञकस्य पदस्य अन्तावयवो यो नकारस्तस्य लोप इति सूत्रार्थ इति। नन्वेमन्तस्येतिग्रहणमवयवषष्ठीत्वज्ञापनार्थमिति स्वीकृतत्लात्पदस्येत्यत्र कथं नाम स्थानषष्ठीलाभः, संबन्धविशेषस्?य निर्धारितत्वेन स्#आथनषष्ठीपरिभाषाया अनुपस्थितेः। अत्राहुः प्रयोगमूलत्वाद्द्यकरणस्मृतेर्लक्ष्यानुरोधेन स्थानषष्ठ\उfffद्पि स्वीक्रियते, ज्ञापकसिद्धा अबयवषष्ठी न सर्वत्र स्वीक्रियते इति नलोपसूत्रे मनोरमायान्तग्रहणं त्युक्तं शक्यमित्युक्तम्। भाष्यादौ तु `पदस्ये'त्यधिकृतस्याऽवयवषष्ठ\उfffद्न्तत्वमप्यभ्युपगम्यते न तु स्थानषष्ठ\उfffद्न्तत्वमेवेति ज्ञापनार्थंमन्तग्रहणम्। तेन `वृक्षवन्तौ'`वृक्षवन्त'इत्यत्र `मादुपधायाः'इति वत्वं सिध्यति, पदावयवस्य मतुपः सत्त्वात्।अन्यथा `पदस्ये'त्यस्य विसेष्यत्वे मतुपातदन्ताविधौ `मत्वन्तं यत्पदं तदवयवस्य मतुपो मादुपधायाः परस्य मस्य वत्वं भवती'त्यर्थः स्यात्। तथा च `वृक्षवा'नित्यत्रैव स्यात्, नतु `वृक्षवन्तौ' `वृक्षवन्त'इत्यत्रे'ति स्थितम्।

Satishji's सूत्र-सूचिः

TBD.