TBD.
अकर्मकातिति वर्तते। यम उपरमे, हन हिंसागत्योः इति परस्मैपदिनौ। ताभ्याम् अकर्मकक्रियावचनाभ्याम् आङ्पूर्वाभ्याम् आत्मनेपदं भवति। आयच्छते, आयच्छेते आयच्छन्ते। हनः खल्वपि आहते, आघ्नाते, आघ्नते। अकर्मकातित्येव। आयच्छति कूपाद् रज्जुम्। आहन्ति वृषलं पादेन। स्वाङ्गकर्मकाच् च इति वक्तव्यम्। आयच्छते पाणिम्। आहते शिरः। स्वाङ्गं च इह न पारिभाषिकम् गृह्यते। किं तर्हि? स्वम् अङ्गं स्वाङ्गम्। तेन इह न भवति , आहन्ति शिरः परकीयम् इति।
TBD.
–
520 आङो यमहनः। आङः परस्माद्यमो, हनश्चात्मनेपदमित्यर्थः। आयच्छते इति। रज्जुर्दीर्घीभवतीत्यर्थः। दीर्घीकरोति पादमिति वा। आहते इति। `स्वोदर'मिति शेषः। परस्य शिर आहन्तीति। स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मकत्वाऽभावाच्च नात्मनेपदम्। कथं तर्हीति। स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मक्तवाऽभावाच्चात्मनेपदाऽसंभवादिति भावः। प्राप्येति। विषमविलोचनस्य वक्षः प्राप्याअजघ्ने इति, रघूत्तमं प्राप्त माऽऽहध्वमिति च प्राप्तिक्रियां प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदं निर्वाधमिति भावः। यद्यपि हननक्रियां प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याऽविक्षितत्वादकर्मकत्वमेव, `धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोसङ्ग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम्। ननु प्राप्येत्यध्याहारे `प्रासादात्प्रेक्षते' इत्यादिवत्पञ्चमी स्यादित्यत आह– ल्यब्लोपे इति। `ल्यब्लोपे पञ्चमी'त्येतत्तु यत्राऽर्थाध्याहारमाश्रित्य ल्यबन्तार्थावगतिस्तद्विषयकम्। अत्र तु ल्यबन्तशब्दाध्याहारान्नाऽत्र पञ्चमीत्यर्थः। भेत्तुमित्यादीति। एवं च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव-। `आजघ्ने विषमे' त्यत्र परिहारान्तरमाह– समीपमेत्येति वेति। `अध्याहार' इति शेषः। विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचक्रे इत्यर्थः। तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः। लुङि आहन् स् त इति स्थिते –
444 आङो यमहनः। प्राप्येति। तथा च हन्तेरकर्मकतया आजघ्ने आहध्वमित्यात्मनेपदं युक्तमित्यर्थः। भेत्तुमित्यादीति। एवं च ल्यब्लोपपञ्चम्याः प्रसक्तिरेव नास्तीति भावः। समीपमेत्येति। विषमविलोचनस्य समीपमेत्य वक्ष आजन्वे। स्वकीयमेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयांचक्रे इत्यर्थात्स्वाङ्गकर्मकत्वमस्त्येवेति भावः।
TBD.