Table of Contents

<<2-4-81 —- 2-4-83>>

2-4-82 अव्ययादाप्सुपः

प्रथमावृत्तिः

TBD.

काशिका

अव्ययादुत्तरस्य आपः सुपश्च लुग् भवति। तत्र शालायाम्। यत्र शालायाम्। सुपः खल्वपि कृत्वा। हृत्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

373

बालमनोरमा

638 अव्ययादाप्सुपः। आप्च सुप्च आप्सुप्, तस्य आप्सुपः, समाहारद्वन्द्वात्षष्ठी। `ण्यक्षत्रियार्षे त्यतो `लु'गित्यनुवर्तते। तदाह–अव्ययाद्विहितस्येति। तत्र शालायामिति। तत्रेत्यस्याव्ययत्वादापो लुक्। स्त्रीत्वबोधनाय `शालाया'मिति। अथेति। अत्र सुपो लुक्। विहितेति। अव्ययात्परस्येत्यनुक्त्ता अव्ययाद्विहितस्येति व्याख्यानादिति भावः। अत्युच्चैसाविति। उच्चैरतिक्रान्त इति विग्रहे `अत्यादयः क्रान्ताद्यर्थे' इति समासः। अधिकरणशक्तिप्रधानान्यव्ययानिरेवृत्तिविषये शक्तिमत्प्रधानानि भवन्ति। यता `दोषामन्यमहः, `दिवाभूता रात्रि'रिति। अतो द्वितीयासम्भवात् `अत्यादयः' इति द्वितीयासमासस्याऽविरोधः। अत्र समासाद्विहितस्य सुपोऽव्ययभूतादुच्चेश्शब्दात्परत्वे।ञपि ततो विहतत्वाऽभावान्न लुक्। `अत्युच्चे'रिति समुदायस्य तु नाव्ययत्वं, स्वरादिगणे उच्चेश्शब्दस्य केवलस्य पाठादिति भावः। ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि `स्वरादिनिपातमव्यय' मित्यव्ययसंज्ञा भवत्येव, `प्रयोजनं सर्वनामाव्ययसंज्ञाया'मिति वचनादित्याशङ्कते– अव्ययसंज्ञायामिति। परिहरति–तथापीति। सर्वनामसंज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधोऽव्ययसंज्ञाविधावनुवर्तत इति `तद्धितश्चासर्वविभक्तिः' इति सूत्रे भाष्ये स्पष्टमिति भावः। व्यर्थमिति। `अव्ययादाप्सुपः' इति सूत्रे' इति शेषः। अलिङ्गत्वादिति। अव्ययानां लिङ्गाऽभावादित्यर्थः। तथाच वार्तिकम्,- `अव्ययादाब्लुग्वचनानर्थक्यं, लिङ्गाऽभावात्' इति। तथा `तद्धिताश्चासर्वविभक्तिः' इति सूत्रे भाष्येऽप्युक्तम्–स्त्रीनपुंसकत्वानि सत्त्वगुण एकत्वद्वित्ववहुत्वानि च-एतानर्थान् ये न वियन्ति तदव्ययमितित। ननु अव्ययानां लिङ्गाऽभावे `सदृशं त्रिषु लिङ्गेषु' इत्याथर्वणश्रुतिविरोध इत्याशङ्क्य परिहरति-सदृशमिति। त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, सर्वेषु वचनेषु च यत् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्=एकप्रकारमेव भवति तदव्ययमिति आथर्वणश्रुतियोजना। अत्र विभक्तिवचनशब्दौ कारकसङ्ख्यापरौ नतु प्रत्ययपरौ, अन्यतरग्रहणवैयथ्र्यात्। लिङ्गकारकेति। लिङ्गकारकसङ्ख्याऽभावः परः=तात्पर्यविषयभूतो यस्या इति विग्रहः। लिङ्गेष्वित्यादिषु सप्तमी हि `षष्ठी चानादरे' इति विहिता। तथाच लिङ्गकारकसङ्ख्या अनादृत्य यन्न व्येति विकारं न प्राप्नोति, किन्तु सदृशम्=एकप्रकारमेव भवति, तदव्ययमित्युदाह्मतश्रुतेरर्थः। `तद्धितश्चासर्वविभक्तिः' इति सूत्रभाष्ये `स्त्रीपुंनपुंसकत्वानि सत्त्वगुणा एकत्वद्वित्वबहुत्वानि च। एतानर्थान् ये न वियन्ति तदव्ययम्' इत्युपक्षिप्य तत्र प्रमाणतया अस्याः श्रुतेरुदाह्मतत्वादिति भावः। अयं च लिङ्गकारकसङ्ख्याऽभावनियमो निपातानामेव, स्वरादीनां तु कतिपयानां लिङ्गकारकसङ्ख्यान्वयोऽस्त्येव, `स्वरादिनिपातमव्यय'मिति सूत्रे भाष्ये `चादीनामस्त्तववचनानामेव संज्ञा। स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां चे'त्युक्तत्वात्, `स्वस्ति वाचयति', `स्वस्ति वाच्य' इति, `क्षीणे पुण्ये स्वः पतति', `प्रातर्यजते' इत्यादौ कर्मकारकयोगदर्शनाच्च। अथ प्रसङ्गादाह–वष्टीति। अव अपि इकत्युपसर्गयोरकारस्य लोपं, हलन्तानाम् आपं च भागुरिनामक आचार्यो वष्टि - इच्छतीत्यर्थः। एवशब्दस्तु पादपूरणः अवेत्युपसर्गे आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात्। भागुरिशब्दं दन्त्योष्ठ\उfffदादिं केचित्पठन्ति। तत्त्वबोधिन्यां तु पव्गचतुर्थादिः पठितः। शब्देन्दुशेखरेऽप्येवम्। यथा वाचेति। परिगणनमिति केचित्। उदाहरणमात्रमित्यन्ये। यद्यपि `वश क्रान्तौ' इत्यस्य छन्दोमात्रविषयत्वं वक्ष्यते, तथापि अस्माद#एव लिङ्गाल्लोकेऽपीत्याहुः। वस्तुतस्तु `वष्टि भागुरि'रिति श्लोको भाष्ये न दृश्यते। प्रत्युत `ङ्याप्प्रातिपदिका'दिति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम्। तत्र ह्रेवमुक्तम्-`आब्ग्रहणं न कार्यं, खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम्' इत्युक्त्वा, क्रुञ्चा उष्णिहा देवविशेति हलन्ताट्टापः स्वाद्यर्थमाब्ग्रहणस्त्वि'ति आक्षिप्य `क्रुञ्चानालभेत उष्णिहककुभौ देवविशं चे'ति अकारान्तादेव तत्रापि टा'बित्युक्त्ता `डाबुभाभ्यामन्यतरस्या'मिति बहुराजा, बहुराजे, बहुराजाः–इत्यर्थमाब्ग्रहण'मिति समाहितम्। तस्मात् `आपं चैव हलन्ताना'मित्याश्रित्य वाचा निशा दिशेत्ययुक्तम्। अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशेत्यादिरूपसंभवेऽपि वाचाशब्दोऽसाधुरेवेति शब्देन्दुशेखरे स्थितम्।

बालमनोरमा

यामव्ययानि।*** ————\र्\नव्ययीभावप्रकरणम्।

तत्त्वबोधिनी

566 अव्ययादाप्सुपः। `ण्यक्षन्त्रियार्षे'ति सूत्राल्लुगत्रानुवर्तत इत्याह– लुक्स्यादिति। `अव्यय'मिति महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम्। न व्येति– विविधं विकारं न गच्छति। सत्त्वधर्मान् लिङ्गसङ्ख्यादीन्न गृह्णातीति यावत्। तेनात्युच्चैसौ अत्युच्चैस इत्यादि सिद्धम्। अतिक्रान्तप्रधानत्वेन सत्त्वधर्मपरग्रहादव्ययसंज्ञाया अत्राऽभावात्। नन्वेमप्युच्चैः– शब्दस्याव्ययत्वानपायात्सुपो लुग्दुर्वार इत्यत आह–विहितविशेषणादिति। अत्युच्चैसाविति। ननु अत्यादयः क्रान्ताद्यर्थे द्विती.यान्तेन समस्यन्ते, उच्चैःशब्दस्त्वधिकरणशक्तिमत्प्रधान इति कर्मत्वाऽयोगान्न तस्य द्वितीयान्तता। सत्यम्। शक्तिप्रधानान्यपि कानिचिदव्ययामि वृत्तिविषये शक्तिमत्प्रधानानि क्वचिद्भवन्ति। यथा दोषामन्यमहः। दिवामन्या रात्रिरिति। ततश्च प्रक्रियादशायमुच्चैःशब्दस्य द्वितीयान्तत्वं संभवतीति दिक्। ननु स्वरादिषु उच्चैःशब्दः पट\उfffद्ते तत्र कथं तदन्तस्य प्रसङ्ग इति चेन्न, अन्वर्थसंज्ञयैव तदन्तविधेरपि ज्ञापनात्। अन्यथा उपसर्जने प्रसङ्गाऽभावेन तन्निवृत्त्यर्थाया अन्वर्थसंज्ञाया वैयथ्र्यापत्तेः। तेन `परमस्वः'`परमोच्चै'रित्यादौ सत्त्वधर्मापरिग्रह#आदव्ययत्वं सिद्धम्। तदेतदाह–अव्ययसंज्ञायां यद्यपीत्यादि। `अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाऽभावा'दिति वार्तिकं मनसि निधायाह–अब्ग्रहणं व्यर्थमिति। सूत्रस्योक्तिसंभवस्तु `स्त्रिया'मिति सूत्रे स्त्रीसमानाधिकरणादिति पक्षं गृहीत्वेति बोध्यः। स च न स्थितः, `भूतमियं ब्राआहृणी'त्यादावतिव्याप्तेः। यदि तु `आमः'इति सूत्रानन्तरं `सुपो धातुप्रातिपदिकयोपव्यया'दिति सूत्र्यते तदा सुब्ग्रहममपि व्यर्थं, `सुप्' इत्यनुवृत्तिसंभवादिति नव्याः। अलिङ्गत्वे आथर्वणप्रणवविद्यागतश्रुतिविरोधमाशङ्क्याह–सदृशमिति। एतेषु यन्न व्येति किंतु सदृशम् एकप्रकारं तदव्ययमिति योजना। यद्वा–यस्मान्न व्येति तस्मात्तदव्ययम्। लिङ्गकारकेति। विभक्तिवचनशब्दौ कारकसङ्ख्यापराविति भावः। यद्यप्यव्ययीभावस्य लिङ्गसङ्ख्याकारकयोगोऽस्ति तथापि वचनादव्ययत्वेम्। अव्ययविशेषे कार्यान्तरमाह– वष्टीति। भादुरिः आचार्यः। आपं चैवेति। `वष्टी त्यनुषज्यते। यथा वाचेति। परिगणनमिदमित्येके। अन्ये तूदाहरणमात्रमित्याहुः। वगाह इति। अपिना साहचर्यादादिरेवाऽकारो लुप्यते नान्त्य इति भावः।\र्\निति तत्त्वबोधिन्याम् अव्ययप्रकरणम्॥

Satishji's सूत्र-सूचिः

274) अव्ययादाप्सुपः 2-4-82

वृत्तिः अव्‍ययाद्विहितस्‍यापः सुपश्‍च लुक् । The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥

Very good reference book for the अव्यय-प्रकरणम् is the “अव्ययकोश:” published by the Sanskrit Education Society in Chennai.