Table of Contents

<<7-1-12 —- 7-1-14>>

7-1-13 ङेर् यः

प्रथमावृत्तिः

TBD.

काशिका

ङेः इति चतुर्थ्येकवचनस्य ग्रहणम्। अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य यः इत्ययम् आदेशो भवति। वृक्षाय। प्लक्षाय। अतः इति किम्? सख्ये। पत्ये। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयम् अनित्या, तेन दीर्घो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

143 अतोऽङ्गात्परस्य ङेयदिशः..

बालमनोरमा

202 ङेर्यः। `हे'रित्येकारान्तात् षष्ठ\उfffदेकवचनम्, नतु ङि इति सप्तम्येकवचनं, व्याख्यानात्। `अतो भिस' इत्यतोऽत इति पञ्चम्यन्तमनुवर्तते। तेन च `अङ्गस्ये'त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते। तदाह–अतोऽङ्गादिति। अदन्तादङ्गादित्यर्थः। `सुपि चे'ति दीर्घं मत्वा आह–रामायेति। ननु यादेशस्य सुप्त्वाऽभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह–इहेति। नन्वत्र दीर्घो यञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते। सच यञंशेऽलाश्रयः। तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः ?, अनल्विधाविति तन्निषेधादिति चेत्, सत्यम्–इह दीर्घस्य यञादिसुबाश्रयतयाऽऽदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावे सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वा।ञभावात्। `अकृत्सार्वधातुकयोदीर्घ' इति तु परमप्यत्र नोपन्यस्तम्, `अकृत्सार्वधातुकयोर्दीर्घ' इति तु परमप्यत्र नोपन्यस्तम्, `अकृत्सार्वधातुकयो'रिति पर्युदासबलेन तस्याऽसुप्येव प्रवृत्तेरित्याहुः। स्यादेतत्। `संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये'त्यस्ति परिभाषा। संनिपातलक्षणः। विधि—कार्यम्। तद्विघातस्य। तं=संनिपातं विहन्तीति तद्विघातः। `कर्मण्यण्' इति कर्मण्युपपदे कर्तर्यण्। `हनस्तोऽचिण्णलो'रिति तकारः। `हो हन्ते'रिति कुत्वम्। संनिपातविघातकस्य न निमित्तमित्यर्थः। उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत्। प्रकृते चाऽदन्तसंबन्धमाश्रित्य प्रवृत्तो यादेशोऽदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्क्य परिहरति– संनिपातलक्षण इत्यादिना। तृतीयाद्विवचनवद्दीर्घं सिद्धवत्कृत्याह-रामाभ्यामिति।

तत्त्वबोधिनी

170 ङेर्यः। `ङे'रिति चतुर्थ्येकवचनस्य ग्रहणं, न सप्तम्येकवचनस्य, व्याख्यानात्। अतएव `ङेरा'मित्यत्रास्याऽग्रहणम्, `समानाधिकरणे'`स्त्रिया'मित्यादिनिर्देशाच्च। स्थानिवद्भवेनेति। आदेशालाश्रयविधौ स्थानिवत्त्वनिषेधाऽभावादिति भावः। सुपि चेति दीर्घ इति। न च परत्वात् `अकृत्सार्वधातुकयोः–' इति दीर्घोऽस्त्विति शङ्क्यम्, तत्र `अयङ्?यि क्ङिति' इत्यतः `क्ङिती'त्यनुवर्तनात्। अन्यथा `उरुये'त्यत्रापि दीर्घः स्यात्। उरुशब्दात्परस्य `टा' इत्यस्य `सुपां सुलुक्' इति यादेशः। एतच्च

प्रथमावृत्तिः

TBD.

काशिका

यां स्पष्टम्। यद्यपि ङेर्यादेशस्य ङित्त्वमस्ति `न ल्यपि' इति ज्ञापकेन अनुबन्धकार्येष्वनल्विधावपि स्थानिवत्त्वाभ्युपगमात्, तथापि शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येषु स्थानिवत्त्वानभ्युपगमाद्यादेशे ङित्त्वं नेत्यभ्युपेत्येदं। विरोधाऽभावात्परत्वमत्राकिंचित्करभित्यनादरेण वा `अकृत्सार्वधातुकयोः-' इति दीर्घेण ज्यायानिति रूपसिद्धेरिति भाष्ये स्थितं, तदिदानीं विरुध्येत, `क्ङिती'त्यनुवृत्तौ तु `ज्याया'नित्यत्र `अकृत्सार्वे'ति दीर्घाऽप्रवृत्तेः। तथाच `अकृत्-' इति सूत्रे क्ङितीति नानुवर्तनीयम्, उरुया धृष्णुयेत्यत्र दीर्घाभावश्छान्दस इत्येवाभ्युपेयमिति चेत्, अत्राहुः, `ज्ञाजनोर्जा' इत्याकारग्रहणमुक्तपरिभाषालिङ्गम्। अन्यथा जमेव विदध्यात्। `अतो दीर्घो यञि' इति `जायते' `जानातीत्यादौ दीर्घसिद्धेरित्यपि भाष्ये स्थितं, तच्च ज्ञापकम् `अकृत्-' इत्यत्र क्ङितीत्यनुवृत्तावपि सङ्गच्छते। एवं च सति `ज्यादात्' इत्याकारग्रहणं लिङ्गमिति तु भाष्ये प्रौढवादमात्रमस्तु। विधिरनिमित्तं तद्विघातस्ये'ति। संनिपातेति। संनिपातः संश्लेषः लक्षणं निमित्तं यस्य स संनिपातलक्षणः। तं संनिपातं विहन्तीति तद्विघातः। कर्मण्यण्, कुत्वतत्वे। उपजीवकविधिः स्वोपजीव्यविघातकविधेर्निमित्तं न भवतीत्यर्थः।

Satishji's सूत्र-सूचिः

62) ङेर्य: 7-1-13

वृत्ति: अतोऽङ्गात् परस्य ङेर्यादेश: । Following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” (चतुर्थी-एकवचनम्) is replaced by “य”।

Please see example under next rule.