Table of Contents

<<7-3-75 —- 7-3-77>>

7-3-76 क्रमः परस्मैपदेषु

प्रथमावृत्तिः

TBD.

काशिका

क्रमः परस्मैपदपरे शिति परतो दीर्घो भवति। क्रामति, क्रामतः, क्रामन्ति। परस्मैपदेसु इति किम्? आक्रमते आदित्यः। इह उत्क्राम, सङ्क्राम इति हेर्लुकि कृते न लुमताङ्गस्य 1-1-66 इति प्रत्ययलक्षणप्रतिषेधात् दीर्घो न प्राप्नोति? न एष दोषः। लुमताशब्देन लुप्ते य दङ्गं तस्य कार्ये स प्रतिषेधः। न च हौ क्रमिरङ्गम्, किं तर्हि, शपि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

488 क्रमो दीर्घः परस्मैपदे शिति. क्राम्यति, क्रामति. चक्राम. क्रमिता. क्रमिष्यति. क्राम्यतु, क्रामतु. अक्राम्यत्, अक्रामत्. क्राम्येत्. क्रामेत्. क्रम्यात्. अक्रमीत्. अक्रमिष्यत्.. पा पाने.. 16..

बालमनोरमा

162 क्रमः। दीर्घः स्यादिति। `शमामष्टाना'मित्यतस्तदनुवृत्तेरिति भावः। शितीति। `ष्ठिवुक्लम्वाचमा'मित्यतस्तदनुवृत्तेरिति भावः। क्रामत्विति। मध्यमपुरुषैकवचने क्रमेत्यत्र तु `क्रमः परस्मैपदेष्वि'ति दीर्घो भवत्येव। नच दीर्घस्याङ्गाधिकारस्थत्वान्नलुममेति निषेधः शङ्क्यः, लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव तस्य प्रवृत्तेः। शिति परतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यं, किंतु शिति परे अङ्गस्य कार्यमिति बोध्यम्।

तत्त्वबोधिनी

136 क्रमः। `ष्ठिवुक्लमुचमा'मित्यतोऽनुवर्तनादाह-परस्मैपदे शतीति। परस्मैपदे किम् ?। उपक्रमते। पराक्रमते।

Satishji's सूत्र-सूचिः

331) क्रमः परस्मैपदेषु। 7-3-76

वृत्तिः क्रमो दीर्घः परस्‍मैपदे शिति। The vowel (अकार:) of the धातुः √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:।

Example continued from above
क्रम् + य + ति = क्राम्‍यति 7-3-76

In the case where the श्यन्-प्रत्यय: is not used, the default शप्-प्रत्यय: is used by 3-1-68, giving the form क्रामति।