Table of Contents

<<7-3-70 —- 7-3-72>>

7-3-71 ओतः श्यनि

प्रथमावृत्तिः

TBD.

काशिका

ओकारान्तस्य अङ्गस्य श्यनि परतो लोपो भवति। शो निश्यति। छो अवछ्यति। द्यो अवद्यति। सो अवस्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

635 लोपः स्यात्. श्यति. श्यतः. श्यन्ति. शशौ. शशतुः. शाता. शास्यति..

बालमनोरमा

339 ओतः श्यनि। `घोर्लोपो लेटि वे'त्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति– लोपः स्यादिति। शशाविति। `आदेच' इत्यात्त्वे णल औत्त्वमिति भावः। शशतुरिति। शशिथ– शशाथ। शशिव।शास्यतीति। श्यतु। अश्यत्। श्येत्। शायात्। लुङि सिचि विशेषमाह–विभाषा घ्रेति। सिचो लुक्पक्षे आह–अशादिति। `आतःर' इति जुसिति मत्वा आह– अशुरिति। सिचो लुगभावे सगिटौ मत्वा आह–अशासीदिति। छोदातुरपि शोधातुवत्। षो अन्तकर्मणीति। समापने विनाशने वेत्यर्थः। शोधातुवद्रूपाणि। षोपदेशोऽयम्। स्यतीति। `ओतः श्यनी'ति लोपः। अभिष्यतीति। `उपसर्गा'दिति षत्वम्। अभ्यष्यदिति। `प्राक्सिता'दिति षत्वम्। अभिससाविति। `स्थादिष्वि'ति नियमान्न षः। दो अवखण्डने। प्रणिदातेति। `नेर्गदे'ति णत्म्। देयादिति। आशीर्लिङि `एर्लिङी'त्येत्त्वम्। अदादिति। `गातिस्थे'ति सिचो लुक्। अथात्मनेपदिन इति। `वाशृ शब्दे' इत्यन्ता इत्यर्थः। जनी प्रादुर्भावे इति। `\उfffदाईदितो निष्ठाया'मित्याद्यर्थमीदित्त्वम्।

तत्त्वबोधिनी

296 षोऽन्त। अन्तक्रम– नाशनम्। `राघव !स्य शरैर्गोरैर्घोरं रावणमाहवे' इति। राघवेति संबुद्ध्यन्तम्। स्येति लोण्मध्यमैकवचनम्। अभिष्यतीति। `उपसर्गात्सुनोती'ति षत्वम्। अभ्यष्यदिति। `प्राक्सितादड्व्यवायेऽपी'ति षत्वम्। अभिससाविति। `स्थादिषु' इति नियमान्न षत्वम्। दो अवखण्डने। अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः, खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः। प्रणिदातेति। `नेर्गदे'ति णत्वम्। देयादिति। `एर्लिङी'त्येत्त्वम्। अदादिति। `गातिस्थे'ति सिचो लुक्।

Satishji's सूत्र-सूचिः

421) ओतः श्यनि 7-3-71
वृत्तिः लोपः स्‍यात् । The ending ओकारः of an अङ्गम् is elided when followed by the श्यन्-प्रत्यय:।

उदाहरणम् – श्यति √शो-धातुः (दिवादि-गणः, शो तनूकरणे, धातु-पाठः # ४. ४०), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The धातु: “शो” has no इत् letters in the धातु-पाठ:। It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। So by the default सूत्रम् 1-3-78, this धातु: will take परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

शो + लँट् 3-2-123
= शो + ल् 1-3-2, 1-3-3
= शो + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शो + ति 1-3-3
= शो + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शो + य + ति 1-3-3, 1-3-8
= श् + य + ति 7-3-71 = श्यति