TBD.
क्षस्यजादौ प्रत्यये लोपो भवति। अधुक्षाताम्। अधुक्षाथाम्। अधुक्षि। अचि इति किम्? अधुक्षत्। अधुक्षताम्। ककारवतः उपादानं किम्? इह मा भूत्, उत्सौ। उत्साः। वत्सौ। वत्साः।
TBD.
595 अजादौ तङि क्सस्य लोपः. अधुक्षाताम्. अधुक्षन्त. अदुग्धाः, अधुक्षथाः. अधुक्षाथाम्. अधुग्ध्वम्, अधुक्षध्वम्. अधुक्षि. अदुह्वहि, अधुक्षावहि. अधुक्षामहि. अधोक्ष्यत.. एवं दिह उपचये.. 22.. लिह आस्वादने.. 23.. लेढि. लीढः. लिहन्ति. लेक्षि. लीढे. लिहाते. लिहते. लिक्षे. लिहाथे. लीढ्वे. लिलेह, लिलिहे. लेढासि, लेढासे. लेक्ष्यति, लेक्ष्यते. लेढु. लीढाम्. लिहन्तु. लीढि. लेहानि. लीढाम्. अलेट्, अलेड्. अलिक्षत्, अलीढ, अलिक्षत. अलेक्ष्यत्, अलेक्ष्यत.. ब्रूञ् व्यक्तायां वाचि.. 24..
176 अघृक्ष– आतामिति स्थिते `आतो ङितः' इति इयादेशे प्राप्ते—क्सस्य। अचीत्यऽस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः। `घोर्लोपो लेटि वे' त्यतो लोप इत्यनुवर्तते। तदाह– अजादावित्यादिना। अलोऽन्त्यस्येति। अन्त्यस्याऽकारस्य लोप इति भावः। वस्तुतस्तु `लुग्वा दुहदिहे'त्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति चदादिविधिः। तेन दृसेः क्सप्रत्यये `तादृक्षा' इत्यादौ नायं लोपः। `अजादौ तङी'त्येव क्वचित्पाठो दृश्यते। अघृक्षातामिति। अघृक्ष– आतामिति स्थिते क्साऽकारस्य लोपे अतः परत्वाऽभावात् `आतो ङितः' इति इय् नेति भावः। अघृक्षन्तेति। झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाऽभावादतः परत्वात् `आत्मनेपदेष्वनतः' इत्यदादेशो न। कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा। ग्लह चेति। ग्ल्हधातुरपि ग्रहणे वर्तत इत्यर्थः। अदुपधोऽयम्। घुषि कान्तीति। उदुपधोऽयम्। इदित्त्वान्नुम्। `नश्चे'त्यनुस्वारः। यय्परकत्वाऽभावान्न परसवर्णः। तदाह–घुषत इति। सेक्टोऽयम्। अदुपधपक्षे तु घषते। जघषे। ऊष्मान्ता आत्मनेपदिनो गताः। अथार्हत्यन्ताः परस्मैपदिन इति। `ऊष्मान्ता' इति शेषः। तत्र तुस ह्यसेत्यतः प्राक् षान्ताः। घुषिरिति।इर् इत्। प्रतिज्ञानमिति। `वेदाः प्रमाण'मित्याद्यभ्युपगम इत्यर्थः। ततोऽन्यस्मिन्निति। विशब्दनात् अन्यत्- - अविशब्दनं, तस्मिन्नित्यर्थः। इरित्त्वादङ् वेति। `इरितो वेत्यनेने'ति शेषः। अघुषदिति। अङो ङित्त्वान्न लघूपधगुणः। अघोषीदिति। अङभावपक्षे लघूपधगुणे `इट ईटी'ति सिज्लोपः। हलन्तलक्षणवृद्धेः `नेटी'ति निषेधः। अक्ष्?धातुरूदित्त्वाद्वेट्कः।
150 घुषि कान्तिकरणे। लुङि अघुंषिष्ट। अघुंषिषाताम्। अदुपधपाठे तु– अघषिष्ट। अघषिषाताम्।
वृत्ति: अजादौ तङि क्सस्य लोपः । The affix “क्स” is elided when followed by a तङ् affix beginning with a vowel.
Note: As per 1-1-52 only the ending letter (अकारः) of “क्स” is elided.
उदाहरणम् – अधुक्षन्त derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
Note: The ending अकारः (which is a इत्) of “दुहँ” has a स्वरित-स्वरः, hence √दुह् is उभयपदी। Here we consider the case where a आत्मनेपद-प्रत्ययः is used.
दुह् + लुँङ् 3-2-110
= दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + झ 3-4-78, 1-4-101, 1-4-102, 1-4-108
= दुह् + च्लि + झ 3-1-43. 7-2-10 blocks 7-2-35
= दुह् + क्स + झ 3-1-45. Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86
= दुह् + स + झ 1-3-8, 1-3-9
= दुह् + स + अन्त 7-1-3
= दुह् + स् + अन्त 7-3-72, 1-1-52
= अट् दुह् + स् + अन्त 6-4-71, 1-1-46
= अ दुह् + स् + अन्त 1-3-3, 1-3-9
= अ दुघ् + स् + अन्त 8-2-32
= अ धुघ् + स् + अन्त 8-2-37
= अ धुघ् + ष् + अन्त 8-3-59
= अधुक्षन्त 8-4-55