Table of Contents

<<1-3-62 —- 1-3-64>>

1-3-63 आम्प्रत्ययवत् कृञो ऽनुप्रयोगस्य

प्रथमावृत्तिः

TBD.

काशिका

अकर्त्रभिप्रायार्थो ऽयमारम्भः। आम्प्रत्ययो यस्मात् सो ऽयमाम्प्रत्ययः। आम्प्रत्ययस्य इव धातोः कृञो ऽनुप्रयोगस्य आत्मनेपदं भवति। ईक्षाञ्चक्रे। ईहाञ्चक्रे। यदि विध्यर्थम् एतत्, तर्हि उदुब्जाञ्चकार, उदुम्भाञ्चकार इति कर्त्रभिप्राये क्रियाफले अत्मनेपदं प्राप्नोति। न एष दोषः। उभयम् अनेन क्रियते, विधिः नियमश्च। कथम्? पूर्ववतिति वर्तते। स द्वितीयो यत्नो नियमार्थो भविष्यति। कृञः इति किम्? ईक्षामास। ईक्षाम्बभूव। कथं पुनरस्य अनुप्रयोगः यावता कृञ् च अनुप्रयुज्यते लिति 3-1-40 इत्युच्यते? कृञिति प्रत्याहारग्रहणं तत्र विज्ञायते। क्व संनिविष्टानां प्रत्याहारः? अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5-4-50 इति कृशब्दादारभ्य यावत् कृञो द्वितीयतृतीयशम्बबीजात् कृषौ 5-4-58 इति ञकरम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

514 आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः. आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञोऽप्यात्मनेपदम्..

बालमनोरमा

86 आम्प्रत्ययव। `अनुदात्तङित' इत्यत आत्मनेपदमित्यनुवर्तते। तत्राम्प्रत्ययस्यात्मनेपदाऽभावादाह– अतद्गुणसंविधानो बहुव्रीहिरिति। तस्य = अन्यपदार्थस्य, गुणाः = विशेषमानि वर्तिपदार्थरूपाणि,तेषां संविज्ञानं = क्रियान्वयो न तु चित्राणां गवामपि। तथा च प्रकृते आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः। `आम्प्रत्यव'दिति तृतीयान्ताद्वतिः। अनुप्रयुज्यत इत्यनुप्रयोगः। कर्मणि घञ्। पञ्चम्यर्थे षष्ठी। तदाह–आम्प्रकृत्येत्यादिना। आम्प्रकृतेर्भवितुं योग्यं यदात्मनेपदं तत् अनुप्रयुज्यमानात्कृञोऽपि स्यादिति यावत्। अत्र न प्रत्याहारग्रहणम्, `अनुप्रयोगस्ये'त्येव सिद्धे कृञ्ग्रहणादिह न प्रत्याहारग्रहण'मिति भाष्यम्। परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः। इन्दंचकारेत्यादौ तु परगामिनि क्रियाफले नाऽनेनात्मनेपदम्, आम्प्रकृतेः `इदि परमै\उfffदार्ये' इति धातोरात्मनेपदाऽभावात्, तस्य परस्मैपदित्वात्। एतदर्थमेव आम्प्रत्ययवदित्युपात्तम्। नन्विन्दांचकारेत्यादौ मास्त्वमनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम्। आत्मगामिनि तु क्रियाफले `स्वरतञित' इत्यात्मनेपदं दुर्वारम्। अस्य सूत्रस्य एधाञ्चक्र इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्याऽप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले `स्वरितञित' इति प्राप्तस्यात्मनेपदस्य निवारणे सामथ्र्याऽभावादित्यत आह– इहेति। इह = `आम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये'ति सूत्रे `पूर्ववत्सनः' इति पूर्वसूत्रात्पूर्ववदित्यनुवर्त्त्य `आम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये'त्येकं वाक्यं, `पूर्ववत्कृञोऽनुप्रयोगस्ये'ति अन्यद्वाक्यमति वाक्यद्वयं संपाद्यम्। तत्र पूर्ववदिति तृतीयान्ताद्वतिः। पूर्वेण = पूर्वप्रयुक्तेन एधादिधातुना, तुल्यमित्यर्थ-। तत्र वाक्यद्वयस्य समानार्थकत्वे वैयथ्र्याद्द्वितीयं वाक्यं नियमार्थं संपद्यते। `पूर्ववदेव आत्मनेपदं न तु तद्विपरीत' मिति। एवं च पूर्ववाक्येन एधाञ्चक्रे इत्यादौ कृञः परगामिन्यपि क्रियाफले आत्मनेपदविधिः, द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले `स्वरितञित' इत्यात्मनेपदस्य निवृत्तिः फलति। तदाह –तेनेति। द्वितीयवाक्येनेत्यर्थः। न तङिति। न आत्मनेपदमत्यर्थः। एवं चाऽनुप्रयुज्यमानात्कृञो लिटस्तङि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते–।

तत्त्वबोधिनी

67 आम्प्रत्ययवत्। आम्प्रत्ययान्तस्यात्मनेपदाऽभावादाह– अतद्गुण इति। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानादिति। तृतीयान्ताद्वतिः। अनुप्रयोगस्येत्यत्र कर्मणि घञिति भावः। `अनुदात्तङित' इत्यतोऽनुवर्तनादाह– आत्मनेपदं स्यादिति। एवमप्राप्तस्य विधानेऽपि प्राप्तस्य निवारणमनेनैव सूत्रेण न संभवतीत्यत आह- - वाक्यभेदेनेति। अत्र च प्रमाणमाम्प्रत्ययवदिति वचनमेव। अन्यता पूर्ववदित्यनुवृत्त्यैवानुप्रयोगस्य कृञ आमः पूर्वेण तुल्यमित्यर्थलभादिष्टसिद्धेः किं तेन `आम्प्रत्ययव'दित्यनेन।

Satishji's सूत्र-सूचिः

वृत्ति: आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञोऽप्यात्मनेपदम्। The धातु: √कृ (डुकृञ् करणे ८. १०) when subjoined as an auxiliary (अनुप्रयुज्यमान:) takes a आत्मनेपद-प्रत्यय: in the same manner as the धातु: to which आम् is added.

Note: This implies that if the धातु: to which आम् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the auxiliary √कृ is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

Example continued from 3-1-36

एधाम् + कृ + लिँट्

= एधाम् + कृ + ल् 1-3-2, 1-3-3, 1-3-9

= एधाम् + कृ + त Note: Since √एध् (एधँ वृद्धौ १. २) is आत्मनेपदी, the auxiliary √कृ takes a आत्मनेपद-प्रत्यय: as per 1-3-63

= एधाम् चक्रे

= एधां चक्रे 8-3-23

= एधांचक्रे/एधाञ्चक्रे। 8-4-59