Table of Contents

<<5-4-49 —- 5-4-51>>

5-4-50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः

प्रथमावृत्तिः

TBD.

काशिका

कारणस्य विकाररूपेण अभूतस्य तदात्मना भावः अभूततद्भावः। सम्पद्यतेः कर्ता सम्पद्यकर्ता। सम्पद्यकर्तरि वर्तमानात् प्रातिपदिकातभूततद्भावे गम्यमाने कृभ्वस्तिभिर् धातुभिर् योगे च्विः प्रत्ययो भवति। अशुक्लः शुक्लः सम्पद्यते, तं करोति शुक्लीकरोति। मलिनं शुक्लीकरोति। शुक्लीभवति। शुक्लीस्यात्। घटीकरोति मृदम्। घटीभवति। घटीस्यात्। अभूततद्भावे इति किम्? शुक्लं करोति। न अत्र प्रकृतिर् विवक्षिता। कृभ्वस्तियोगे इति किम्? अशुक्लः शुक्लो जायते। सम्पद्यक्र्तरि इति किम्, यावता अभूततद्भावसामर्थ्याल् लब्धम् एव सम्पद्यकर्तृत्वम्? कारकान्तरसम्पत्तौ मा भूत्, अदेवगृहे देवगृहे सम्पद्यते। देवगृहस्याधेयविशेषसम्बन्धेन अभूततद्भावः सत्त्वाधिकरणस्य, न कर्तुः इति?।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1245 (अभूततद्भाव इति वक्तव्यम्). विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे..

बालमनोरमा

कृभ्वस्तियोगे। अभूतेति। येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः। एवंच यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमानं विकाराऽभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते। संपद्यकर्तरीत्येकं पदम्। संपदनं–सम्पद्यः। संपूर्वकात्पदधातोरत एव निपातनादेव भावे कृत्संज्ञः शः, दिवादित्वाच्छ्यन्। संपद्यस्य कर्तेति षष्ठीसमासः। यावत्। केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम्, `अभूततद्भावे' इति वार्तिकात्प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते। तत्र विकारवाचकादेव प्रत्ययः, अस भुवी'ति धातुभिर्योगे सतीत्यर्थः। `च्विप्रत्यये चकार इत्, इकार उच्चारणार्थः।

तत्त्वबोधिनी

1575 कृभ्वस्तियोगे। योग इति किम्?। अशुक्लः शुक्लो जायते।

Satishji's सूत्र-सूचिः

TBD.