Table of Contents

<<5-4-57 —- 5-4-59>>

5-4-58 कृञो द्वितीयतृतीयशम्बबीजात् कृषौ

प्रथमावृत्तिः

TBD.

काशिका

द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे, न अन्यत्र। पुनः कृञ्ग्रहणम् भ्वस्त्योर् निवृत्त्यर्थम्। द्वितीयाकरोति। द्वितीयं कर्षणं विलेखनं करोति इत्यर्थः। तृतीयाकरोति। शम्बाकरोति। अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषति इत्यर्थः। बीजाकरोति। सह बीजेन विलेहनं करोति इत्यर्थः। कृषौ इति किम्? क्वितीयं करोति पदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

कृञो द्वितीय। द्वितीयादिभ्य इति। द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः। कृञ एव योगे इति। कृञ्ग्रहणात्कृभ्वस्तिर्नानुवर्तत इति भावः। `मद्रात्परिवापणे' इति यावत्कृञ इत्यनुवत्र्तते। बहुलोक्तेरिति। `डाचि बहुलं द्वे भवतः' इति बहुलग्रहणादव्यक्तानुकरणस्यैव डाचि द्वित्वम्। नतु तदन्यस्येत्यर्थः। शम्बशब्दः प्रतिलोमे इति। `वर्तते' इति शेषः। बीजेन सह कर्षतीति। आदौ कृष्टक्षेत्रे कुलत्थादिबीजानां वापे कृते पुनर्बोजैः सह कर्षणं प्रसिद्धम्। `कर्षात्वत' इति सूत्रभाष्यप्रामाण्यात्कृषधातुः शब्विकरणोऽस्ति। तेन शविकरणत्वात्कृषतीत्येव युक्तमिति न शङ्क्यम्।

तत्त्वबोधिनी

1582 बीजेन सहेति। ननु बीजेन सह भूतलस्य कर्षणे बीजानामपि कर्षणप्रसङ्गाद्विवक्षितार्थो न सिध्यतीति चेत्। अत्राहुः—वृत्तिविषये बीजशब्दो बीजावापसहिते विलेखने वर्तते। तथा च बीजावापसहितं विलेखनं करोतीत्यर्थ इति।

Satishji's सूत्र-सूचिः

TBD.