TBD.
युजिर् योगे स्वरितेत्। तस्य कर्त्रभिप्राये क्रियाफले सिद्धम् एव आत्मनेपदम्। अकर्त्रभिप्रायार्थो ऽयमारम्भः। प्र उप इत्येवं पूर्वात् युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति। प्रयुङ्क्ते। उपयुङ्क्ते। अयज्ञपात्रेषु इति किम्? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि}। स्वराध्यन्तोपसृष्टादिति वक्तव्यम्। उद्युङ्क्ते। नियुङ्क्ते। स्वराद्यन्तौपसृष्तातिति किम्? संयुनक्ति।
TBD.
–
559 प्रोपाभ्यां। `आत्मनेपद'मिति शेषः। स्वरेति। स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः। तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः। द्वन्द्वमिति। द्वन्द्वं द्विशः, न्यञ्चि– अधोबिलानीत्यर्थ-।
–
TBD.