Table of Contents

<<1-3-13 —- 1-3-15>>

1-3-14 कर्तरि कर्मव्यतिहारे

प्रथमावृत्तिः

TBD.

काशिका

कर्मशब्दः क्रियवाची। व्यतिहारो विनिमयः। यत्रान्यसम्बन्धिनीं क्रियामन्यः करोति, इतरसम्बन्धिनीं चेतरः, स कर्मव्यतिहारः। तद्धिशिष्टक्रियावचनाद् धातोरात्मनेपदं भवति। व्यतिलुनते। व्यतिपुनते। कर्मव्यतिहारे इति किम्? लुनन्ति। कर्तृग्रहणम् उत्तरार्थं शेषात् कर्तरि परस्मैपदम् 1-3-78 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

734 क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्. व्यतिलुनीते. अन्यस्य योग्यं लवनं करोतीत्यर्थः..

बालमनोरमा

505 कर्तरि कर्म। कर्मव्यतिहारशब्दं विवृण्वन्नाह– क्रियाविनिमये द्योत्ये इति। एवं च कर्मशब्दः क्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति। अन्यस्येति। शूद्रादियोग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः। परस्परकरणमपि कर्मव्यतिहार इति कैयटः। संप्रहरन्ते राजानः। कर्तृग्रहणं भावकर्मणोरित्यस्याऽनुवृत्तिनिवृत्त्यर्थम्।अन्यथा व्यतिलुनीत इत्यत्र न स्यात्। वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम्। व्यति अस् ते इति स्थिते आह–श्नसोरिति। तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः। इह `उपसर्गप्रादुभ्र्या'मिति न षः, यच्परकत्वाऽभावादिति भावः। व्यतिषाते इति। इह अच्परकत्वादुपसर्गप्रादुभ्र्यामिति षः। व्यति स् ?से इति स्थिते आह– तासस्त्योरिति। `उपसर्गप्रादुभ्र्या'मिति नेह ष्तवम्, अस्त्यवयवस्य सकारस्य लुप्तत्वात्। व्यति स् ध्वे इति स्थिते आह– धि चेति। `सलोप' इति शेषः। व्यितस् ए इति स्थिते आह– ह एतीति। सकारस्य हकार इति भावः। व्यत्यसै इति। लोडुत्तमपुरुषैकवचनम्। व्यत्यास्तेति। लङि रूपम्। व्यतिषीतेति। लिङि रूपम्। व्यतिराते इति। लटि प्रथमपुरुषैकद्विबहुवचनेषु समानमेव र#ऊपम्। व्यतिभाते इति। भाधातो रूपम्। व्यतिबभे इति। लिटि रूपम्।

तत्त्वबोधिनी

433 कर्तरि कर्म। अन्यस्येति। शूद्रस्य योग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः। परस्परकरणमपि कर्मव्यतिहारः। संप्रहरन्ते राजानः। पृथक्?सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थम्। व्यतिस्ते इति। यच्परत्वाऽभावान्न षः। व्यतिसे इति। `उपसर्गप्रादुभ्र्या'मिति नेह षत्वम्, सकारस्याऽस्त्यवयवत्वाऽभावात्। `आदेशप्रत्यययो' रिति षत्वं तु `सात्पदाद्यो'रिति निषिद्धम्, एकदेशविकृतन्यायेन प्रत्ययमात्रस्य पदत्वात्।

Satishji's सूत्र-सूचिः

TBD.