Table of Contents

<<8-4-44 —- 8-4-46>>

8-4-45 यरो ऽनुनासिके ऽनुनासिको वा

प्रथमावृत्तिः

TBD.

काशिका

पदान्तग्रहणम् अनुवर्तते। यरः पदान्तस्य अनुनासिके परतः वा अनुनासिकः आदेशो भवति। वाङ् नयति, वाग्नयति। श्वलिण्नयति, श्वलिङ्नयति। अग्निचिन्नयति, अग्निचिद् नयति। त्रिष्तुम्नयति, त्रिष्टुब् नयति। पदान्तस्य इत्येव, वेद्मि। क्षुभ्नाति। यरो ऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्। वाङ्मयम्। त्वङ्मयम्। व्यवस्थितविभाषाविज्ञानात् सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

68 यरोऽनुनासिकेऽनुनासिको वा.. यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्. एतन्मुरारिः, एतद् मुरारिः. (प्रत्यये भाषायां नित्यम्). तन्मात्रम्ॅहिन्मयम्..

बालमनोरमा

117 यरोऽनुनासिके। `न पदान्ताट्टो'रित्यतः पदान्तादित्यनुवर्तते, तच्च षष्ठ\उfffद्न्ततया विपरिणम्?यते, तदाह–यरः पदान्तस्येति। `एतन्मुरारि'रिति कर्मधारयः। एतद्-मुरारिरिति स्थिते दस्य अनुनासिको नकारः, दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च। स्यात्, रेफसकारयोः स्पृष्टेत्स्पृष्टप्रयत्नभेदेऽपि मूर्घस्थानान्तर्यादित्यत आह- -स्थानेति। `एतन्मुरारि'रित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्पर्शे चरितार्थः=लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः। `यूनि लब्धे तु युवतिर्जरठे रमते कथ'मिति न्यायादिति भावः। विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं भवतीत्यर्थः। तन्मात्रमिति। तत्-प्रमाणं यस्य तत्तन्मात्रं। `प्रमाणे द्वयसज्दध्नञ्मात्रचः' इति मात्रच्प्रत्ययः। चिन्मयमिति। `नित्यं वृद्धशारादिभ्यः' इत्यत्र `नित्य'मिति योगविभागात्ताद्रूप्ये मयट्। कथं तहीति। यदि प्रत्यये परे नित्यमनुनासिकः स्यात्तदा `मदोदग्राः ककुद्मन्त' इति कालिदासप्रयोगः कथमित्याक्षेपः। मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः। परिहरति– यवादीति। यवादिगणे कुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः। यदि तत्र दकारस्य नकार एव इष्टः स्यात्तर्हि नकारमेव लाघवान्निर्दिशेदिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

8-4-45 यरोऽनुनासिकेऽनुनासिको वा

वृत्ति: यरः पदान्तस्यानुनासिके परतो वानुनासिक आदेशो भवति । When a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)

गीतासु उदाहरणम् – श्लोकः Bg13-31

अनादित्वात् + निर्गुणत्वात् = अनादित्वाद् + निर्गुणत्वात् = अनादित्वान् + निर्गुणत्वात्

वार्त्तिकम् (under 8-4-45) प्रत्यये भाषायां नित्यम्।

When an affix follows, the rule 8-4-45, even though optional, is always applied in Classical Sanskrit.

उदाहरणम् – षष् + आम् 4-1-2 = षष् + नाम् 7-1-55, 1-1-46, 1-3-2, 1-3-3, अङ्गम् has पद-सञ्ज्ञा by 1-4-17 = षड् + नाम् 8-2-39 = षड् + णाम् 8-4-41 (Note: 8-4-42 does not stop णत्वम् because the सूत्रम् mentions अनाम् and excludes नाम् from the निषेधः) = षण्णाम् 8-4-45, by the वार्त्तिकम् “प्रत्यये भाषायां नित्यम्”, णत्वम् is always done.