Table of Contents

<<1-4-16 —- 1-4-18>>

1-4-17 स्वादिष्वसर्वनमस्थाने

प्रथमावृत्तिः

TBD.

काशिका

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

164 कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्..

बालमनोरमा

228 तदेतदाह–स्वादिपञ्चेति। स्वादिष्वस। `असर्वनामस्थाने'इति बहुत्वेऽप्येकवचनमार्षम्। कप्प्रत्ययावधिष्विति। पञ्चमाध्यायान्ते विधीयमानकप्प्रत्ययोत्तरावधिकेष्वित्यर्थः। तत्र च व्याख्यानमेव शरणम्। एवं च दत्- असित्यत्र दत्शब्दस्य सुबन्तत्वाऽभावेन पदत्वाऽभावेऽप्यनेन सूत्रेण पदत्वात् `झलां जशोऽन्ते' इति तकारस्य जश्त्वं स्यादित्याक्षेपः सूचितः।

तत्त्वबोधिनी

193 स्वादिष्वसर्वनाम। `सु'रत्र सप्तमीबहुवचनमिति न शङ्क्यम् , किंतु `असर्वनामस्थाने' इति पर्युदासात्प्रथमैकवचनमेव। `सुपी'त्येव सिद्धे आदिग्रहणमधिकपरिग्रहार्थमित्याशयेनाह -कप्प्रत्ययावधिष्विति। नन्वेवं-राजे'त्यत्र नलोपो न स्यात्प्रत्ययलक्षणेन सर्वनामस्थानपरतया पदत्वाऽभावात्। नैष दोषः। सौ परतः `स्वादिषु' इत्यनेन पदत्वाऽसंभवेऽपि सुब्विशिष्टस्य `सुप्तिङ्न्त'मितित पदसंज्ञायां हल्ङ्यादिना सुलोपे एकदेशविकृतन्यायेन नकारान्तस्य पदत्वात्। यदि तु `स्वादिषु' इतियोगेन स्वादिषु परेषु पूर्वं पदं भवतीति पूर्वस्य पदसंज्ञां विधाय `यचि भ'मित्यत्र `यची'ति च्छित्त्वायजादौ सर्वनामस्थाने परतः पूर्वं पदं नेति निषिध्यते, तदा औजसादिषुपदसंज्ञाऽभावेऽपि सौ परतः पदत्वसंभवात् `राजे'त्यादौ नलोपे कार्ये न काप्यनुपपत्तिः।

Satishji's सूत्र-सूचिः

166) स्वादिष्वसर्वनामस्थाने 1-4-17

वृत्ति: कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्। Excluding the affixes that have the सर्वनामस्थान-सञ्ज्ञा, when any of the other affixes from सुँ up to कप् follow, the base gets the पद-सञ्ज्ञा. Note: From सुँ up to कप् means any प्रत्यय: prescribed from 4-1-2 up to the end of the 5th Chapter of the अष्टाध्यायी.

उदाहरणम् – लिह् + भ्याम् 4-1-2 Here the अङ्गम् “लिह्” gets पद-सञ्ज्ञा by 1-4-17 and therefore we get लिढ् + भ्याम् 8-2-31 = लिड्भ्याम् 8-2-39