TBD.
षट्संज्ञकेभ्यः चतुःशब्दाच् च उत्तरस्यामो नुडागमः भवति। षण्णाम्। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। चतुर्णाम्। रेफान्तायाः सङ्ख्यायाः षट्संज्ञा न विहिता, षड्भ्यो लुक् 7-1-22 इति लुग् मा भूत्। बहुवचननिर्देशादत्र सङ्ख्याप्रधानस्य ग्रहणं भवति। परमषण्णाम्। परमपञ्चानाम्। परमसप्तानाम्। परमचतुर्णाम्। उपसर्जनीभूतायास् तु सङ्ख्यायाः न भवति, प्रियषषाम्, प्रियपञ्चाम्, प्रियचतुराम् इति।
TBD.
267 एभ्य आमो नुडागमः..
षट्चतुभ्र्यश्च। षट्चतुभ्र्य इति पञ्चमी। `आमि सर्वनाम्नः' इत्यत आमीत्यनुवृत्तं षष्ठ\उfffदां विपरिणम्यते। षडिति षट्संज्ञकं गृह्रते। नतु षट्शब्दः, `कृत्रिमाकृत्रिमयो'रिति न्यायात्। तदाह षट्संज्ञकेभ्य इत्यादिना। नुटि टकार इत्, उकार उच्चारणार्थः। टित्त्वादाद्यवयवः। णत्वमिति। `रषाभ्या'मित्यनेने'ति शेषः। द्वित्वमिति। `अचो रहाभ्या'मिति णकारस्ये'ति शेषः। द्वित्वस्याऽसिद्धत्वात्पूर्वं णत्वे कृते ततो णस्य द्वित्वम्। नच `पूर्वत्रासिद्धमद्विर्वचने' इनि निषेधः शङ्क्यः, द्वित्वे कर्तव्ये अन्यदसिद्धं नेति हि तदर्थः। न तु द्वित्वस्याऽप्यसिद्धत्वं नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भावः। चतुर् सु इति स्थिते रेफस्य विसर्गे प्राप्ते-।
298 षट्चतुभ्र्यश्च। बहुवचननिर्देशादर्थस्य प्राधान्यं विवक्षितम्। अर्थाच्चाऽऽमः परत्वं शब्दद्वारकं, तेन तदन्तविधौ सत्यपि `परमचतुर्णा'मित्यादावेब भवति, न तु बहुव्रीहौ। तदेतद्वक्ष्यति–`गौणत्वे तु नुण्नेष्यते'इत्यादिना। द्धित्वमिति। `अचोरहाभ्या'मित्यनेन।