Table of Contents

<<8-4-43 —- 8-4-45>>

8-4-44 शात्

प्रथमावृत्तिः

TBD.

काशिका

तोः इति वर्तते। शकारादुत्तरस्य तवर्गस्य यदुक्तं तन् न भवति। प्रश्नः। विश्नः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

63 शात्परस्य तवर्गस्य चुत्वं न स्यात्. विश्नः. प्रश्नः..

बालमनोरमा

113 शात्। न पदान्तादिति पूर्वसूत्रात् `ने'त्यनुवर्तते। `स्तोःश्चुना श्चु'रित्यतः `तो'रिति , `चु'रिति चानुवर्तते। नतु सकारः शकारश्च। `शा'दिति दिग्योगे पञ्चमी, `परस्ये'त्यध्याहार्यन्तदाह–शात्परस्येत्यादिना। विश्न इति। विच्छ गतौ। `यजयाचयतविच्छप्रच्छरक्षो नङ्' इति नङ्। छ्वोःशूठ्' इति छस्य शः। ङित्त्वान्न गुणः। अत्र शकारयोगात्तवर्गीयनकारस्य श्चुत्वेन ञकारे प्राप्ते निषेधः। पूर्वसूत्रे `श्चुना योगे' इत्यत्रापि यथासङ्शख्याश्रयणे तु इह तवक्दीयस्य नकारस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थः स्यात्। एवंचाऽस्मादेव निषेधात्पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासंख्याश्रयणमिति विज्ञायते। प्रश्न इति। `प्रच्छ ज्ञीप्सायाम्'। पूर्वन्नङादि। अत्र `ग्राहिज्ये'ति संप्रसारणं न, `प्रश्ने चासन्नकाले' इत्यादिनिर्देशात्। अत्र वर्गपञ्चमानां नासिकास्थानाधिक्ये।ञपि तत्तद्वर्गीयैरस्ति सावण्र्यमिति तुल्यास्यसूत्रेऽवोचाम।

तत्त्वबोधिनी

93 शात्। `ने'ति `तो'रिति चानुवर्तते तदाह-तवर्गस्येत्यादि। `जश्त्व'- मित्यादिव्याख्यातृनिर्देशे निःसन्दिग्धत्वेन बोधनाय `वश्चे'ति षत्वं जश्त्वं च न कृतं,तथा श्चुत्वमपि न कृतमिति परिहारसम्भवाद्वर्गान्त्यमेवोदाहरति-विश्नः प्रश्न इति। `विच्छ गतौ', `प्रच्छ ज्ञाप्सायाम्'। `यजयाचे'त्यादिनानङ्। `छ्वोः शू'डिति छस्य शत्वम्। नङो ङित्वाद्गुणाभावः। प्रच्छेस्तु `प्रश्ने चासन्ने'ति निर्देशात्संप्रसारणाऽभावः। ननु ञमङणनाना नासिकास्थानाधिक्याद्वर्गेष्वाद्यैश्चतुर्भिः सह तुल्यस्थानत्वाभावेन सावण्र्याऽभावात् `स्तोः श्चुने'ति `तु' शब्देन नकारो न गृह्रते किं तु स्ववर्गाद्यश्चत्वार एवेति विश्न प्रश्न इत्यत्र श्चुत्वाऽप्रसक्तेः किमनेन निषेधेनेति चेदत्राहुः,-`शा'दिति निषेधाल्लिङ्गादेव `तुल्यास्यप्रयत्न'मित्यत्रास्यग्रहणेन नासिकास्थानभिन्नं ताल्वादिस्थानं गृह्रते, तत्स्थानं तु तुल्यमेवेति `तु' शब्देन पञ्चमस्यापि ग्रहणात्स्चुत्वप्रसक्तौ निषेधोऽयमावश्यकः। एवंच `तोर्ली'ति `तु' शब्देन नकारस्यापि ग्रहणाद्विद्वाँल्लिखतीत्यादि सिध्यति। नच निमित्तकार्यिणोर्यथासङ्ख्यनिरासज्ञापकमित्युक्तत्वात्तेनैव चार्थवत्त्वे कथमुक्तार्थे ज्ञापकं भवेदिति वाच्यं; `तु' शब्देन नकारग्रहणे सिद्धे हि यथासङ्ख्यनिवृत्तिरतेन ज्ञापनीयेत्युभयज्ञापेनबाधकाऽभावात्। नापि `तुल्यास्ये'त्यत्र यत्किञ्चित्स्थानतुल्यत्वविवक्षायां वर्गेषु पञ्चापि वर्णाः परस्परं सवर्णा भवेयुरित्युक्तोदाहरणे श्चुत्वप्रसक्तौ `शा'दित्यारम्भ आवश्यक इत्येतज्ज्ञापकाश्रयणं किमर्थमिति वाच्यं, तथाहि सति ञमङणनानां परस्परसावण्र्यपत्त्या `त्व नयसी'त्यादौ `अनुस्वारस्य ययि परसवर्णः'`वा पदान्तस्ये'त्यनुस्वारस्य ञादयोऽपि स्युः। ताल्वादिस्थानासाम्याऽभावेऽपि नासिकारूपस्य यत्किचित्स्थानस्य तुल्यत्वात्। नापि तुस्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां ञादीनां परत्परसावण्र्यं न भवेत्, तेषां नासिकास्थानसाम्येऽपि ताल्वादिस्थानसाम्याऽभावेन न्यूनस्थानकत्वात्। ततश्च `त्वं नयसी'त्यादिषु नातिप्रसङ्गः। स्ववर्गाद्यैः सह तु ञादीनां सावण्र्यं स्यादेव। नासिकास्थानाधिक्येऽपितदन्यूनस्थानकत्वात्तेषामिति `विद्वाँल्लिखतीट'त्यादीष्टं सिध्यति। वर्गाद्यानां तु नासिकास्थानाऽभावेन न्यूनस्थानकत्वात्पञ्चमेन च सावण्र्याभावेऽपि न क्षतिरिति ज्ञापकाश्रयणं विनैवेष्टसिद्धिरिति वाच्यं, `हे गौरि एही'त्यादौ सवर्णदीर्घापत्तेः। `इकोऽसवर्ण' इति शाकलप्रकृतिभावानापत्तेश्च। इकारान्यूनस्थानकत्वेन तत्सवर्णत्वादेकारस्य। `स्वराणामूष्माणां चैव विवृतं करणं स्मृतम्। तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव चे'ति वचनात्प्रयत्नभेदेन सावण्र्याऽभावमभ्युपगम्योक्तानिष्टवारणेऽपि `तद्वस्तु' `तदस्त्र'मित्यत्र `तोर्ली'ति परसवर्णविधिना दकारस्य वकारापंत्तेः,वकारस्य ओष्ठस्थानादिक्येऽपि दन्तस्थानसाम्येन लकाराऽन्यूनस्थानकत्वात्। यदि तु `वकारस्य दन्तोष्ठ'मिति समाहारनिर्देशादोष्ठस्थान (दन्तस्थान)भिन्नमेव दन्तोष्ठस्थानमिति वकारस्य लकारसावण्र्याभावात्तद्वस्त्वित्यादौ नातिप्रसङ्ग इति ब्राऊषे तर्हि `लुग्वा दुहे'त्यादिना दन्त्ये तङि विधीयमानो रक्सस्तस्य लुक्-`अदुह्वही'त्यत्र न स्यात्, किंतु `अदुग्धे'त्यादावेव स्यात्। तथा `पिपूर्तः' `पिपुरती'त्यादौ विधीयमानम् `उदोष्ठयपूर्वस्ये'त्युत्वं `सुस्वूर्षती'त्यादौ न स्यादुक्तरीत्या वकारस्यौष्ठ\उfffद्त्वाऽभावात्। न च वस्योष्ठ\उfffद्त्वेदन्त्यत्वेच सति `सेक्सृप्' इति षोपदेशलक्षणे स्विदादीनां पृथग्ग्रहणं व्यर्थं स्यात्तेषामपि दन्त्यान्तसादित्वादिति भ्रमितव्यम्; `दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपी'त्यादेर्मूल एव वक्ष्यमाणत्वात्। ये तु पाणिनिशिक्षायां यमानुस्वारयोरेव नासिकास्थानत्वकथनादन्येषां स्थानं नासिका न भवति, किं त्वनुनासिकत्वं गुण एव। नासिकाव्यापारेणोच्चार्यमाणत्वमात्रेण नासिकास्थानत्वकथने त्वकारादीनामप्युक्तरीत्या नासिकास्थानमिति स्थाननिरूपणे तेषां तदकथान्न्यूनतेत्यादि वदन्ति। तेषामत्रोक्तज्ञापकाश्रयणं विनैवेष्टसिद्धिः। अन्ये त्वकारादीना नासिकया सर्वदाऽनुच्चारणादनुनासिकत्वं गुणः, `सत्त्वे निविशतेऽपैती'त्यादिलक्षणलक्षितत्वात्। ञमङणनानां त्वनुनासिकत्वं नापैति, सर्वदैव तयोच्चारणादिति न गुणः, किन्तु यमानुस्वारयोरिव स्थानमेव नासिकेति स्थानानिरूपणे `ञमङणनाना नासिका चे'त्युक्तं नत्वकारादीनां। नासिका चेति। यत्तूक्तं तुल्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां तद्वस्त्वित्यादौ `तोर्ली'ति दकारस्य वकारप्रसङ्ग इति तदापाततः। `तोर्ली'त्यत्र लकारद्वयनिर्देश इति स्वीकृत्य लकाररूपे लकारे परे परसवर्ण इति व्याख्यायामुक्तदोषाऽप्रसक्तेरित्याहुः॥

Satishji's सूत्र-सूचिः

TBD.