TBD.
यरः इति वर्तते। अच उत्तरौ यौ रेफहकारौ ताभ्याम् उत्तरस्य यरो द्वे भवतः। अर्क्कः मर्क्कः। ब्रह्म्मा। अपह्न्नुते। अचः इति किम्? किन् ह्नुते। किम् ह्मलयति।
TBD.
269 अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः. चतुर्ण्णाम्, चतुर्णाम्..
60 अचो रहाभ्यां द्वे। यरोऽनुनासिक इत्यतो यर इति षष्ठ\उfffद्न्तं वेति चानुवर्तते। अच इति दिग्योगे पञ्चमी। `पराभ्या'मिति शेषः। रहाभ्यामित्यपि पञ्चमी। `परस्ये'ति शेषः। तदाह–अचः पराभ्यामित्यादिना। हय्र्यनुभव इति। हरेरनुभव इति विग्रहः। हरि-अनुभव इति स्थिते रेफादिकारस्य यण्। तस्य द्वित्वम्। अथ हकारात्परस्योदाहरति–न ह्य्यस्तीति। नहि–अस्तीति स्थिते हकारादिकारस्य यण्। तस्य द्वित्वम्। इहोभयत्र यकारस्य अचः परत्वाऽभावादच्परकत्वाच्च द्वित्वमप्राप्तं विधीयते। अत्राऽनचि चेति रेफहकारयोर्द्वित्वं न भवति। द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छ\उfffद्तेन निमित्तभावेन तयोर्यर्शब्दबोधितकार्यभाक्त्वबाधात्, `श्रुतानुमितयोः श्रुतं बलीय' इति न्यायात्। हर्? य्? य् अनुभवः, नह् य् य् अस्ति इति स्थिते।
50 अचो रहाभ्याम्। अचः किम् ? `ह्लुते' इत्यादौ नकारस्य माभूत्।