TBD.
स्तोः इति वर्तते। सकारतवर्गयोः षकारट्वर्गाभ्यां सन्निपाते षकारटवर्गावादेशौ भवतः। तत्र अपि तथैव सङ्ख्यातानुदेशभावः। षकारेण सकारस्य वृक्षष्षण्डे। प्लक्षष्षण्डे। तस्य एव टवर्गेण वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षष्ठकारः। प्लक्षष्ठकारः। तवर्गस्य षकारेण पेष्टा। पेष्टुम्। पेष्टव्यम्। कृषीष्ट। कृषीष्ठाः। तस्य एव टवर्गेण अग्निचिट्तीकते। सोमसुट्टीकते। अग्निचिट्ठकारः। सोमसुट्ठकारः। अग्निचिड्डीनः। सोमसुड्डीनः। अग्निचिड्ढौकते। सोमसुड्ढौकते। अग्निचिण्णकारः। सोमसुण्णकारः। अत्ट अट्टति। अद्ड अड्डति।
TBD.
70 उदः परयोः स्थास्तम्भोः पूर्वसवर्णः..
114 ष्टुना ष्टुः। `स्तो'रित्यनुवर्तते। तदाह-स्तोरिति। अत्रापि स्थान्यादेशानां यतासंख्यं, नतु`ष्टुयोगे'इत्यत्र। रामष्षष्ठ इति। रामस्-षष्ट इति स्थिते षकारयोगात्सस्य ष्टुत्वेन षः। अत्रापि `ष्टुना योग' इत्यत्र न यथासंख्यमित्यस्य प्रयोजनं दर्शयितुं सकारस्य टवर्गयोगेऽपि उदाहरति–रामष्टीकते इति। `टीकृ गतौ'। तट्टीकेति। तस्य-टीकेति विग्रहः। `तद्टीके'ति स्थिते टुत्वेन दस्य डत्वे चत्र्वम्। चक्रिण्ढोकसे इति। ढौकृ गतौ। चक्रिन् ढोकसे इति स्थिते टवर्गयोगान्नस्य टुत्वेन णत्वम्। न पदान्तात्। `अना'मिति `तो'रित्यस्य विशेषणं। ननु भिन्नविभक्तिकमेतत्कथं तद्विशेषणमित्यत आह–अनामिति लुप्तषष्ठीकमिति। नामवयवभिन्नस्येत्यर्थः। `स्तोः' `ष्टु'रित्यनुवर्तते।
94 ष्टुना ष्टुः। इहापि कार्यिनिमित्तयोर्यथासङ्ख्यं न, `तोःषी'ति ज्ञापकात्। सर्पिष्टममिति। `ह्यस्वात्तादौ तद्धिते' इति षत्वम्। यरो। पदान्तस्येति किम् ?। वेद्मि। स्तभ्राति। स्पर्शे चरितार्थ इति। प्रसिद्धप्रयोगाभिप्रायेणेदमुक्तम्। `कमल्मुरारिः' `वृक्षव्नेते'त्यादौ लकारवकारयोरनुनासिकप्रवृत्तौ बाधकाऽभावात्। `स्पर्शस्यैवेष्यते'इति प्राचो ग्रन्थानुरोधेन स्पर्शभिन्नेष्वनुनासिकविधिर्न प्रवर्ततेऽनभिधानादिति वा योज्यम्। रेफे न प्रवर्तत इति। यद्यपि `व्यक्तिः पदार्थ' इति पक्षे लक्ष्यभेदे लक्षणभेदादस्यां व्यक्तौ लक्षणस्याऽचरितार्थत्वाद्रेफेऽपि प्रवृत्तिर्दुर्वारैव, तथापि लक्ष्यानुरोधेन जातिपक्षमाश्रित्येदमुक्तम्। दकारनिपातनादिति। ननु यवादिगणे `ककु'दित्येव पठ\उfffद्ते नतु `ककुद्मन्त' इति मतुब्विशिष्टम्। तथाच यरोऽनुनासिको दुर्वारः। न च यरोऽनुनासिकप्रवृत्तौ झयन्तत्वाऽभावेन `झयः' इति मतुपो मकारस्य वत्वाप्रसत्तया यवादिगणे `ककु'दिति पाठो निरर्थकः स्यादिति वाच्यम्; अनुनासिकविधेरलसिद्धत्वेन झयन्तत्वानपायाद्नणे तत्पाठस्य सार्थक्यादिति चेदत्राहुः, यद्यत्र ककुद्दकारस्य नकार इष्टः स्यात्तर्हि गणे `ककु' नित्येव पठेन्न `ककु'दिति। मतुपः प्रकृतिभूतककुच्छब्दस्य नान्तत्वनिपातनेऽप्यन्यत्र दकारान्तप्रयोगस्य निर्बाधत्वात्। तस्माद्यरोऽनुनासिकोऽत्र न प्रवर्तत इति। अन्येत्वाहुः-`यचि भं तसौ मत्वर्थे' इति संहितायां पाठे `तसा'विति तात्पूर्वं दकारं प्रश्लिष्य भत्वेनाप्येतत्समाधातुं शक्यम्। `तसा'विति द्विवचननिर्देशस्तु दतयोः समाहारद्वन्द्वं कृत्वा इतरेतरयोगद्वन्द्वे कृते समुपपद्यत इति।
168) ष्टुना ष्टुः 8-4-41
वृत्ति: स्तोः ष्टुना योगे ष्टुः स्यात्। When the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “ष्” or a letter of the ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”) then it is replaced respectively by “ष्”, ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”).
Example continued:
लिड् + सु or लिड् + ध्सु – Here the सकारः of सु in the first form and the धकारः in the second form would respectively get the षकारः and ढकारः as replacements by 8-4-41. – Example continued below.