Table of Contents

<<8-1-73 —- 8-2-1>>

8-1-74 विभाषितं विशेषवचने बहुवचनम्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण विद्यमानवत्त्वे प्रतिषेद्धे विकल्प उच्यते। विशेषवचने समानाधिकरने आमन्त्रितान्ते परतः पूर्वम् आमन्त्रितं बहुवचनान्तं विभाषितम् अविद्यमानवद् भवति। देवाः शरण्याः, देवाः शरण्याः। ब्राहमणा वैयाकरणाः, ब्राह्मणाः वैयाकरणाः। सामान्यवचनाधिकारदेव विशेषवचने इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम्। भुवचनम् इति किम्? माणवक जटिलक। नित्यम् एतद् विद्यमानवदेव। इति वामनकाशिकायां वृत्तौ अष्टमस्य अध्यायस्य प्रथमः पादः। अष्टमाध्यायस्य द्वितीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

सु=शोभनौ पादौ यस्येति बहुव्रीहौ `संख्यासुपूर्वस्ये'ति पादशब्दान्त्यलोपे सुपाच्छब्दः। तस्य सुटि रूपाण्याह–सुपादित्यादिना।

तत्त्वबोधिनी

365 सुपादिति। शोभनौ पादौ यस्येति बहुव्रीहिः। सङ्ख्यासुपूर्वस्याऽन्तलोपः।

Satishji's सूत्र-सूचिः

TBD.