Table of Contents

<<1-1-59 —- 1-1-61>>

1-1-60 अदर्शनं लोपः

प्रथमावृत्तिः

TBD.

काशिका

अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थान्तरम्. एतैः शब्दैर्यो ऽर्थो ऽभिधीयते, तस्य लोपः इति इयं संज्ञा भवति. अर्थस्यैयं संज्ञा, न शब्दस्य. प्रसक्तस्य अदर्शनं लोपसंज्ञं भवति. गोधाया ढ्रक् 4-1-129 गौधेरः. पचेरन्. जीवे रदानुक् जीरदानुः. स्त्रिवेर्मनिनास्रेमाणम्. यकारवकारयोरदर्शनम् इह उदाहरणम्. अपरस्य अनुबन्धादेः प्रसक्तस्य. लोपप्रदेशाःलोपो व्योर् वलि 6-1-66 इत्येवम् आदयः.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

2 प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्.

बालमनोरमा

55 सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह–अदर्शनं लोपः। शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम्। दर्शनस्याभावोऽदर्शनम्। अर्थाभावेऽव्ययीभावः। `स्थानेऽन्तरतमः' इत्यतः स्थां इत्यनुवर्तते। स्थानं प्रसङ्ग इत्युक्तम्। शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः।

तत्त्वबोधिनी

47 अदर्शनं लोपः। अत्र दृशिज्र्ञानसामान्यवचनः। दर्शनं ज्ञानं। तदिह शब्दानुशासनप्रस्तावाच्छब्दविषयकं सच्छ्रवणं संपद्यते। तच् श्रोतृव्यापारः, तन्निषेधोऽश्रवणम्। नन्वेवं `लोपो व्योर्वली'त्यादौ वकारयकारौ न श्रोतव्याविति श्रोतृव्यापार एव निषिध्येत, प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात्। अत्राहुः- असति च श्रवणे उच्चारणमनर्थकमवेति सामथ्र्याच्छ्रवणनिषेधे तद्धेतुभूतमुच्चारणमपि निषिद्धं भवतीति। प्रसक्तस्येति। इह `स्थाने' इत्यनुवर्तनादेताल्लभ्यते। प्रसक्तस्येति किम् ? दधि मध्वित्यादौ तुगागमो मा भूत्। अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति दिक्।

Satishji's सूत्र-सूचिः

TBD.