Table of Contents

<<6-3-36 —- 6-3-38>>

6-3-37 न कोपधायाः

प्रथमावृत्तिः

TBD.

काशिका

कोपधायाः स्त्रियाः पुंवद्भावो न भवति। पाचिकाभार्यः। कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी। वेलिपिकायाः धर्म्यं वैलेपिकम्। कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्। इह मा भूत्, पाकभार्यः, भेकभार्यः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

828 न कोपधायाः। पाचिकाभार्य इति। पाचिका भार्या यस्येति विग्रहः। पचो ण्वुल्। अकादेशटाबित्त्वानि। पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यात्। रसिकेति। रसोऽस्या अस्तीति रसिका। `अत इनिठनौ' इति ठन्। `ठस्येकः'। टाप्। पुंवत्त्वनिषेधः। पुंवत्त्वे तु टापो निवृत्तिः स्यात्। मद्रिकायते इति। मद्राख्ये देशविशेषे भवा मद्रिका। `मद्रवृज्योः कन्'। टाप्। इत्त्वम्। मद्रिकेवाटचरतीत्यर्थः। `क्यह्भानिनोश्चे'ति पुंवत्त्वं प्राप्तमिह निषिध्यते। मद्रिकामानिनीति। मद्रिकां मन्यत इत्यर्थे `मनश्चे'ति णिनिः। उपपदसमासः। इहापि `क्यङ्भानिनोश्चे'ति पुंवत्त्वं प्राप्तं निषिध्यते। उभयत्रापि पुंवत्त्वे टाबित्वर्योर्निवृत्तिः स्यात्। तद्धितवुग्रहणमिति। `न तद्धितवुकोपधायाः' इति सूत्रं पठनीयमिति यावत्। तद्धितसंबन्धी वुसंबन्धी च यः ककारस्तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति। मद्रिकायते इति। तद्धितबुग्रहणस्य प्रयोजनमाह–नेहेति। पाकेति। `अर्भकपृथुकपाका वयसी'त्युणादिषु कप्रत्ययान्तो निपातितः। अयं तद्धितस्य वुप्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः।

तत्त्वबोधिनी

726 पाचिकाभार्य इति। पचतीति पाचिका। ण्वुल्। `युवो'रित्यकादेशे टापि `प्रत्ययस्था'दितीत्त्वम्। रसिकाभार्य इति। रसोऽस्त्यास्या इति रसिका। `अत इनिठनौ'इति ठन्। मद्रिकायत इति। `क्यङ्भानिनोश्चे'ति पुंवत्त्वप्राप्तिः। मुद्रेषु भवा मद्रिका। `मद्रवृज्योः कन्'। सति तु पुंवद्भावे इत्वं न श्रूयेतेति भावः। सम्बध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः। पाका भार्येति। `अर्भकपृथुकपाका वयसी'ति कप्रत्ययान्तोऽयमुणादिषु निपातितः। न चायं तद्धितस्य ककारो, नापि वोः। `वयसि प्रथम्' इति ङीपं बाधित्वाऽजादित्वाट्टाप्।

Satishji's सूत्र-सूचिः

TBD.