Table of Contents

<<1-1-9 —- 1-1-11>>

1-1-10 न अज्झलौ

प्रथमावृत्तिः

TBD.

काशिका

अच् च हल् च, अज्झलौ। तुल्याऽस्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः। अवर्णहकारौ दण्डहस्तः, इवर्णशकारौदधि शीतम्, सवर्णदीर्घत्वं न भवति। वैपाशो मत्स्यः, आनडुहं चर्म इति यस्यैति च (6-4-148) इति लोपो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

सिद्धान्तकौमुदी

<< 8-2-11-1-69 >>
१३ आकारसहितोऽच् आच्, स च हल्चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् । तथा हि ॥

बालमनोरमा

15 एवं प्राप्ते प्रतिषेधति–नाज्झलौ। आसहितः अच्-आच्। शाकपार्थिवादित्वात्सहितशब्दस्य लोपः। आ च हस्व-आज्झलौ। तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते। तच्च पुँल्लिङ्गाद्विवचनान्ततया विपरिणम्यते। तदाह–अकारसहितोऽजित्यादिना। ननु किमर्थोऽयं प्रतिषेध इत्यत आह– तेनेत्यादि यणादिकं नेत्यन्तम्। तेन=प्रतिषेधेन। आदिना सवर्णदीर्घसङ्ग्रहः। दधीति इकारस्य हकारे षकारे सकारे च परे `इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः। नन्वस्त्वकारहकारयोरिकारशकारयोरृकारषकारयोर्लृकारसकारयोश्च सावण्र्यं, तथापि `दधि षष्ठ'मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह–अन्यथेत्यादिना। अन्यथा=तेषां सावण्र्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः। ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति। गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम्। करणे ल्युट्। स्वार्थे कः। अणुदित्सूत्रादित्यर्थः। यद्यप्यच्छब्द0वाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति। ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः। न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः। अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात्। तथा च `अच्त्वं स्या'दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः। किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते-तथा हीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.